भीष्म उवाच 001
भूतानां गुणसङ्ख्यानं भूयः पुत्र निशामय 001a
द्वैपायनमुखाद्भ्रष्टं श्लाघया परयानघ 001c
दीप्तानलनिभः प्राह भगवान्धूम्रवर्चसे 002a
ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम् 002c
भूमेः स्थैर्यं पृथुत्वं च काठिन्यं प्रसवात्मता 003a
गन्धो गुरुत्वं शक्तिश्च सङ्घातः स्थापना धृतिः 003c
अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता 004a
जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा 004c
अग्नेर्दुर्धर्षता तेजस्तापः पाकः प्रकाशनम् 005a
शौचं रागो लघुस्तैक्ष्ण्यं दशमं चोर्ध्वभागिता 005c
वायोरनियमः स्पर्शो वादस्थानं स्वतन्त्रता 006a
बलं शैघ्र्यं च मोहश्च चेष्टा कर्मकृता भवः 006c
आकाशस्य गुणः शब्दो व्यापित्वं छिद्रतापि च 007a
अनाश्रयमनालम्बमव्यक्तमविकारिता 007c
अप्रतीघातता चैव भूतत्वं विकृतानि च 008a
गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतात्मभाविताः 008c
चलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा 009a
सदसच्चाशुता चैव मनसो नव वै गुणाः 009c
इष्टानिष्टविकल्पश्च व्यवसायः समाधिता 010a
संशयः प्रतिपत्तिश्च बुद्धौ पञ्चेह ये गुणाः 010c
युधिष्ठिर उवाच 011
कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः 011a
एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह 011c
भीष्म उवाच 012
आहुः षष्टिं भूतगुणान्वै भूतविशिष्टा नित्यविषक्ताः 012a
भूतविषक्ताश्चाक्षरसृष्टाः पुत्र न नित्यं तदिह वदन्ति 012c
तत्पुत्र चिन्ताकलितं यदुक्तमनागतं वै तव सम्प्रतीह 013a
भूतार्थतत्त्वं तदवाप्य सर्वं भूतप्रभावाद्भव शान्तबुद्धिः 013c