व्यास उवाच 001
हृदि कामद्रुमश्चित्रो मोहसञ्चयसम्भवः 001a
क्रोधमानमहास्कन्धो विवित्सापरिमोचनः 001c
तस्य चाज्ञानमाधारः प्रमादः परिषेचनम् 002a
सोऽभ्यसूयापलाशो हि पुरादुष्कृतसारवान् 002c
सम्मोहचिन्ताविटपः शोकशाखो भयङ्करः 003a
मोहनीभिः पिपासाभिर्लताभिः परिवेष्टितः 003c
उपासते महावृक्षं सुलुब्धास्तं फलेप्सवः 004a
आयासैः संयतः पाशैः फलानि परिवेष्टयन् 004c
यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति 005a
गतः स दुःखयोरन्तं यतमानस्तयोर्द्वयोः 005c
संरोहत्यकृतप्रज्ञः सन्तापेन हि पादपम् 006a
स तमेव ततो हन्ति विषं ग्रस्तमिवातुरम् 006c
तस्यानुशयमूलस्य मूलमुद्ध्रियते बलात् 007a
त्यागाप्रमादाकृतिना साम्येन परमासिना 007c
एवं यो वेद कामस्य केवलं परिकर्षणम् 008a
वधं वै कामशास्त्रस्य स दुःखान्यतिवर्तते 008c
शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते 009a
तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम् 009c
इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः 010a
तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा 010c
यदर्थमुपजीवन्ति पौराः सहपुरेश्वराः 011a
अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः 011c
तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते 012a
पौराश्चापि मनस्त्रस्तास्तेषामपि चला स्थितिः 012c
यदर्थं बुद्धिरध्यास्ते न सोऽर्थः परिषीदति 013a
यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति 013c
पृथग्भूतं यदा बुद्ध्या मनो भवति केवलम् 014a
तत्रैनं विवृतं शून्यं रजः पर्यवतिष्ठते 014c
तन्मनः कुरुते सख्यं रजसा सह सङ्गतम् 015a
तं चादाय जनं पौरं रजसे सम्प्रयच्छति 015c