व्यास उवाच 001
शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम् 001a
कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः 001c
यथा मरीच्यः सहिताश्चरन्ति गच्छन्ति तिष्ठन्ति च दृश्यमानाः 002a
देहैर्विमुक्ता विचरन्ति लोकांस्तथैव सत्त्वान्यतिमानुषाणि 002c
प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते 003a
सत्त्ववांस्तु तथा सत्त्वं प्रतिरूपं प्रपश्यति 003c
तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः 004a
स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः 004c
स्वपतां जाग्रतां चैव सर्वेषामात्मचिन्तितम् 005a
प्रधानद्वैधयुक्तानां जहतां कर्मजं रजः 005c
यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि 006a
वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम् 006c
तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः 007a
सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः 007c
मनोबुद्धिपराभूतः स्वदेहपरदेहवित् 008a
स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः 008c
तत्रापि लभते दुःखं तत्रापि लभते सुखम् 009a
क्रोधलोभौ तु तत्रापि कृत्वा व्यसनमर्छति 009c
प्रीणितश्चापि भवति महतोऽर्थानवाप्य च 010a
करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति 010c
तमेवमतितेजोंशं भूतात्मानं हृदि स्थितम् 011a
तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु 011c
शास्त्रयोगपरा भूत्वा स्वमात्मानं परीप्सवः 012a
अनुच्छ्वासान्यमूर्तीनि यानि वज्रोपमान्यपि 012c
पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु 013a
समाधौ योगमेवैतच्छाण्डिल्यः शममब्रवीत् 013c
विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् 014a
प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति 014c