व्यास उवाच 001
द्वन्द्वानि मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः 001a
वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत् 001c
आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी 002a
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु 002c
अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम् 003a
तस्य शब्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित् 003c
चरणं मारुतात्मेति प्राणापानौ च तन्मयौ 004a
स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम् 004c
ततः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम् 005a
तस्य रूपं गुणं विद्यात्तमोऽन्ववसितात्मकम् 005c
प्रक्लेदः क्षुद्रता स्नेह इत्यापो ह्युपदिश्यते 006a
रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः 006c
सङ्घातः पार्थिवो धातुरस्थिदन्तनखानि च 007a
श्मश्रु लोम च केशाश्च सिराः स्नायु च चर्म च 007c
इन्द्रियं घ्राणसञ्ज्ञानं नासिकेत्यभिधीयते 008a
गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः 008c
उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चोत्तराः 009a
पञ्चानां भूतसङ्घानां सन्ततिं मुनयो विदुः 009c
मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता 010a
एकादशोऽन्तरात्मा च सर्वतः पर उच्यते 010c
व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम् 011a
कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसञ्ज्ञकः 011c
एभिः कालाष्टमैर्भावैर्यः सर्वैः सर्वमन्वितम् 012a
पश्यत्यकलुषं प्राज्ञः स मोहं नानुवर्तते 012c