व्यास उवाच 001
गन्धान्रसान्नानुरुन्ध्यात्सुखं वा नालङ्कारांश्चाप्नुयात्तस्य तस्य 001a
मानं च कीर्तिं च यशश्च नेच्छेत्स वै प्रचारः पश्यतो ब्राह्मणस्य 001c
सर्वान्वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान् 002a
ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः 002c
ज्ञातिवत्सर्वभूतानां सर्ववित्सर्ववेदवित् 003a
नाकामो म्रियते जातु न तेन न च ब्राह्मणः 003c
इष्टीश्च विविधाः प्राप्य क्रतूंश्चैवाप्तदक्षिणान् 004a
नैव प्राप्नोति ब्राह्मण्यमभिध्यानात्कथञ्चन 004c
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति 005a
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा 005c
यदा न कुरुते भावं सर्वभूतेषु पापकम् 006a
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा 006c
कामबन्धनमेवैकं नान्यदस्तीह बन्धनम् 007a
कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते 007c
कामतो मुच्यमानस्तु धूम्राभ्रादिव चन्द्रमाः 008a
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते 008c
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् 009a
स कामकान्तो न तु कामकामः स वै लोकात्स्वर्गमुपैति देही 009c
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः 010a
दमस्योपनिषद्दानं दानस्योपनिषत्तपः 010c
तपसोपनिषत्त्यागस्त्यागस्योपनिषत्सुखम् 011a
सुखस्योपनिषत्स्वर्गः स्वर्गस्योपनिषच्छमः 011c
क्लेदनं शोकमनसोः सन्तापं तृष्णया सह 012a
सत्त्वमिच्छसि सन्तोषाच्छान्तिलक्षणमुत्तमम् 012c
विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमः 013a
षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति 013c
षड्भिः सत्त्वगुणोपेतैः प्राज्ञैरधिकमन्त्रिभिः 014a
ये विदुः प्रेत्य चात्मानमिहस्थांस्तांस्तथा विदुः 014c
अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम् 015a
अध्यात्मं सुकृतप्रज्ञः सुखमव्ययमश्नुते 015c
निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः 016a
यामयं लभते तुष्टिं सा न शक्यमतोऽन्यथा 016c
येन तृप्यत्यभुञ्जानो येन तुष्यत्यवित्तवान् 017a
येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित् 017c
सङ्गोप्य ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन् 018a
यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते 018c
समाहितं परे तत्त्वे क्षीणकाममवस्थितम् 019a
सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा 019c
सविशेषाणि भूतानि गुणांश्चाभजतो मुनेः 020a
सुखेनापोह्यते दुःखं भास्करेण तमो यथा 020c
तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम् 021a
ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः 021c
स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते 022a
इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते 022c
कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम् 023a
पुनरावर्तनं नास्ति सम्प्राप्तस्य परात्परम् 023c