शुक उवाच 001
यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन 001a
यो विशिष्टश्च धर्मेभ्यस्तं भवान्प्रब्रवीतु मे 001c
व्यास उवाच 002
धर्मं ते सम्प्रवक्ष्यामि पुराणमृषिसंस्तुतम् 002a
विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु 002c
इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः 003a
सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान् 003c
मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः 004a
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते 004c
तानि सर्वाणि सन्धाय मनःषष्ठानि मेधया 005a
आत्मतृप्त इवासीत बहु चिन्त्यमचिन्तयन् 005c
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि 006a
तदा त्वमात्मनात्मानं परं द्रक्ष्यसि शाश्वतम् 006c
सर्वात्मानं महात्मानं विधूममिव पावकम् 007a
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः 007c
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः 008a
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् 008c
एवमात्मा न जानीते क्व गमिष्ये कुतो न्वहम् 009a
अन्यो ह्यत्रान्तरात्मास्ति यः सर्वमनुपश्यति 009c
ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना 010a
दृष्ट्वा त्वमात्मनात्मानं निरात्मा भव सर्ववित् 010c
विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः 011a
परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः 011c
सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम् 012a
पञ्चेन्द्रियग्राहवतीं मनःसङ्कल्परोधसम् 012c
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् 013a
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् 013c
अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः 014a
प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम् 014c
संसारसागरगमां योनिपातालदुस्तराम् 015a
आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम् 015c
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः 016a
तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच्छुचिः 016c
उत्तमां बुद्धिमास्थाय ब्रह्मभूयं गमिष्यसि 017a
सन्तीर्णः सर्वसङ्क्लेशान्प्रसन्नात्मा विकल्मषः 017c
भूमिष्ठानीव भूतानि पर्वतस्थो निशामय 018a
अक्रुध्यन्नप्रहृष्यंश्च ननृशंसमतिस्तथा 018c
ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ 018e
एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः 019a
धर्मं धर्मभृतां श्रेष्ठ मुनयस्तत्त्वदर्शिनः 019c
आत्मनोऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम् 020a
प्रयताय प्रवक्तव्यं हितायानुगताय च 020c
आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् 021a
अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा 021c
नैव स्त्री न पुमानेतन्नैव चेदं नपुंसकम् 022a
अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम् 022c
नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयात् 023a
अभवप्रतिपत्त्यर्थमेतद्वर्त्म विधीयते 023c
यथा मतानि सर्वाणि न चैतानि यथा तथा 024a
कथितानि मया पुत्र भवन्ति न भवन्ति च 024c
तत्प्रीतियुक्तेन गुणान्वितेन पुत्रेण सत्पुत्रगुणान्वितेन 025a
पृष्टो हीदं प्रीतिमता हितार्थं ब्रूयात्सुतस्येह यदुक्तमेतत् 025c