व्यास उवाच 001
सृजते तु गुणान्सत्त्वं क्षेत्रज्ञस्त्वनुतिष्ठति 001a
गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः 001c
स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान् 002a
ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान् 002c
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते 003a
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे 003c
उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति 004a
अनेनैव विधानेन भवेद्गर्भशयो महान् 004c
अनादिनिधनं नित्यमासाद्य विचरेन्नरः 005a
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः 005c
इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् 006a
अतीत्य सुखमासीत अशोचंश्छिन्नसंशयः 006c
तप्येयुः प्रच्युताः पृथ्व्या यथा पूर्णां नदीं नराः 007a
अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा 007c
न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित् 008a
एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः 008c
एवं बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम् 009a
समवेक्ष्य शनैः सम्यग्लभते शममुत्तमम् 009c
एतद्वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः 010a
आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम् 010c
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् 011a
विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः 011c
न भवति विदुषां महद्भयं यदविदुषां सुमहद्भयं भवेत् 012a
न हि गतिरधिकास्ति कस्यचिद्भवति हि या विदुषः सनातनी 012c
लोकमातुरमसूयते जनस्तत्तदेव च निरीक्ष्य शोचते 013a
तत्र पश्य कुशलानशोचतो ये विदुस्तदुभयं कृताकृतम् 013c
यत्करोत्यनभिसन्धिपूर्वकं तच्च निर्णुदति यत्पुरा कृतम् 014a
न प्रियं तदुभयं न चाप्रियं तस्य तज्जनयतीह कुर्वतः 014c