व्यास उवाच 001
मनः प्रसृजते भावं बुद्धिरध्यवसायिनी 001a
हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना 001c
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः 002a
मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः 002c
बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनोऽऽत्मिका 003a
यदा विकुरुते भावं तदा भवति सा मनः 003c
इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियते ह्यणु 004a
शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते 004c
पश्यन्ती भवते दृष्टी रसती रसनं भवेत् 005a
जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक् 005c
इन्द्रियाणीति तान्याहुस्तेष्वदृश्याधितिष्ठति 006a
तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते 006c
कदाचिल्लभते प्रीतिं कदाचिदपि शोचते 007a
न सुखेन न दुःखेन कदाचिदिह युज्यते 007c
सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते 008a
सरितां सागरो भर्ता महावेलामिवोर्मिमान् 008c
यदा प्रार्थयते किञ्चित्तदा भवति सा मनः 009a
अधिष्ठानानि वै बुद्ध्या पृथगेतानि संस्मरेत् 009c
इन्द्रियाण्येव मेध्यानि विजेतव्यानि कृत्स्नशः 009e
सर्वाण्येवानुपूर्व्येण यद्यन्नानुविधीयते 010a
अविभागगता बुद्धिर्भावे मनसि वर्तते 010c
प्रवर्तमानं तु रजः सत्त्वमप्यनुवर्तते 010e
ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु 011a
अन्वर्थाः सम्प्रवर्तन्ते रथनेमिमरा इव 011c
प्रदीपार्थं नरः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः 012a
निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया 012c
एवंस्वभावमेवेदमिति विद्वान्न मुह्यति 013a
अशोचन्नप्रहृष्यंश्च नित्यं विगतमत्सरः 013c
न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः 014a
प्रवर्तमानैरनये दुर्धरैरकृतात्मभिः 014c
तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति 015a
तदा प्रकाशते ह्यात्मा घटे दीप इव ज्वलन् 015c
सर्वेषामेव भूतानां तमस्यपगते यथा 015e
यथा वारिचरः पक्षी न लिप्यति जले चरन् 016a
एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् 016c
असज्जमानः सर्वेषु न कथञ्चन लिप्यते 016e
त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदात्मनि 017a
सर्वभूतात्मभूतस्य गुणमार्गेष्वसज्जतः 017c
सत्त्वमात्मा प्रसवति गुणान्वापि कदा च न 018a
न गुणा विदुरात्मानं गुणान्वेद स सर्वदा 018c
परिद्रष्टा गुणानां स स्रष्टा चैव यथातथम् 019a
सत्त्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः 019c
सृजते तु गुणानेक एको न सृजते गुणान् 020a
पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा 020c
यथा मत्स्योऽद्भिरन्यः सन्सम्प्रयुक्तौ तथैव तौ 021a
मशकोदुम्बरौ चापि सम्प्रयुक्तौ यथा सह 021c
इषीका वा यथा मुञ्जे पृथक्च सह चैव च 022a
तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ 022c