शुक उवाच 001
अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे 001a
यदध्यात्मं यथा चेदं भगवन्नृषिसत्तम 001c
व्यास उवाच 002
अध्यात्मं यदिदं तात पुरुषस्येह विद्यते 002a
तत्तेऽहं सम्प्रवक्ष्यामि तस्य व्याख्यामिमां शृणु 002c
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च 003a
महाभूतानि भूतानां सागरस्योर्मयो यथा 003c
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः 004a
तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते 004c
इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम् 005a
सर्गे च प्रलये चैव तस्मान्निर्दिश्यते तथा 005c
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् 006a
अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति 006c
शुक उवाच 007
अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत् 007a
इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत् 007c
व्यास उवाच 008
एतत्ते वर्तयिष्यामि यथावदिह दर्शनम् 008a
शृणु तत्त्वमिहैकाग्रो यथातत्त्वं यथा च तत् 008c
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसम्भवम् 009a
प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः 009c
रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते 010a
रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसाम् 010c
घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः 011a
एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः 011c
वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते 012a
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः 012c
मनो बुद्धिश्च भावश्च त्रय एतेऽऽत्मयोनिजाः 013a
न गुणानतिवर्तन्ते गुणेभ्यः परमा मताः 013c
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते 014a
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम् 014c
चक्षुरालोचनायैव संशयं कुरुते मनः 015a
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते 015c
रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः 016a
समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत् 016c
यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति 017a
एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति 017c
यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति 018a
एतस्मिन्नेव कृत्ये वै वर्तते बुद्धिरुत्तमा 018c
गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि 019a
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः 019c
तत्र यत्प्रीतिसंयुक्तं किञ्चिदात्मनि लक्षयेत् 020a
प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत् 020c
यत्तु सन्तापसंयुक्तं काये मनसि वा भवेत् 021a
रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम् 021c
यत्तु सम्मोहसंयुक्तमव्यक्तविषयं भवेत् 022a
अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम् 022c
प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता 023a
अकस्माद्यदि वा कस्माद्वर्तते सात्त्विको गुणः 023c
अभिमानो मृषावादो लोभो मोहस्तथाक्षमा 024a
लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः 024c
तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता 025a
कथञ्चिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः 025c