व्यास उवाच 001
प्रकृतेस्तु विकारा ये क्षेत्रज्ञस्तैः परिश्रितः 001a
ते चैनं न प्रजानन्ति स तु जानाति तानपि 001c
तैश्चैष कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः 002a
सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः 002c
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः 003a
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः 003c
महतः परमव्यक्तमव्यक्तात्परतोऽमृतम् 004a
अमृतान्न परं किञ्चित्सा काष्ठा सा परा गतिः 004c
एवं सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते 005a
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः 005c
अन्तरात्मनि संलीय मनःषष्ठानि मेधया 006a
इन्द्रियाणीन्द्रियार्थांश्च बहु चिन्त्यमचिन्तयन् 006c
ध्यानोपरमणं कृत्वा विद्यासम्पादितं मनः 007a
अनीश्वरः प्रशान्तात्म ततोऽर्छत्यमृतं पदम् 007c
इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः 008a
आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते 008c
हित्वा तु सर्वसङ्कल्पान्सत्त्वे चित्तं निवेशयेत् 009a
सत्त्वे चित्तं समावेश्य ततः कालञ्जरो भवेत् 009c
चित्तप्रसादेन यतिर्जहाति हि शुभाशुभम् 010a
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते 010c
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् 011a
निवाते वा यथा दीपो दीप्यमानो न कम्पते 011c
एवं पूर्वापरे रात्रे युञ्जन्नात्मानमात्मना 012a
सत्त्वाहारविशुद्धात्मा पश्यत्यात्मानमात्मनि 012c
रहस्यं सर्ववेदानामनैतिह्यमनागमम् 013a
आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम् 013c
धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु 014a
दशेदमृक्सहस्राणि निर्मथ्यामृतमुद्धृतम् 014c
नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च 015a
तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम् 015c
स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् 015e
तदिदं नाप्रशान्ताय नादान्तायातपस्विने 016a
नावेदविदुषे वाच्यं तथा नानुगताय च 016c
नासूयकायानृजवे न चानिर्दिष्टकारिणे 017a
न तर्कशास्त्रदग्धाय तथैव पिशुनाय च 017c
श्लाघते श्लाघनीयाय प्रशान्ताय तपस्विने 018a
इदं प्रियाय पुत्राय शिष्यायानुगताय च 018c
रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथञ्चन 018e
यद्यप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः 019a
इदमेव ततः श्रेय इति मन्येत तत्त्ववित् 019c
अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् 020a
यत्तन्महर्षिभिर्दृष्टं वेदान्तेषु च गीयते 020c
तत्तेऽहं सम्प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि 020e