शुक उवाच 001
वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा 001a
योक्तव्योऽऽत्मा यथा शक्त्या परं वै काङ्क्षता पदम् 001c
व्यास उवाच 002
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् 002a
यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु 002c
कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु 003a
प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम् 003c
तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा 004a
एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् 004c
एकश्चरति यः पश्यन्न जहाति न हीयते 005a
अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् 005c
अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः 006a
लघ्वाशी नियताहारः सकृदन्ननिषेविता 006c
कपालं वृक्षमूलानि कुचेलमसहायता 007a
उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम् 007c
यस्मिन्वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव 008a
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् 008c
नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित् 009a
ब्राह्मणानां विशेषेण नैव ब्रूयात्कथञ्चन 009c
यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत् 010a
तूष्णीमासीत निन्दायां कुर्वन्भेषजमात्मनः 010c
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा 011a
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः 011c
येन केनचिदाच्छन्नो येन केनचिदाशितः 012a
यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः 012c
अहेरिव गणाद्भीतः सौहित्यान्नरकादिव 013a
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः 013c
न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः 014a
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः 014c
नाभिनन्देत मरणं नाभिनन्देत जीवितम् 015a
कालमेव प्रतीक्षेत निदेशं भृतको यथा 015c
अनभ्याहतचित्तः स्यादनभ्याहतवाक्तथा 016a
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् 016c
अभयं सर्वभूतेभ्यो भूतानामभयं यतः 017a
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन 017c
यथा नागपदेऽन्यानि पदानि पदगामिनाम् 018a
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे 018c
एवं सर्वमहिंसायां धर्मार्थमपिधीयते 019a
अमृतः स नित्यं वसति योऽहिंसां प्रतिपद्यते 019c
अहिंसकः समः सत्यो धृतिमान्नियतेन्द्रियः 020a
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् 020c
एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः 021a
न मृत्युरतिगो भावः स मृत्युमधिगच्छति 021c
विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम् 022a
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः 022c
जीवितं यस्य धर्मार्थं धर्मोऽरत्यर्थमेव च 023a
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः 023c
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् 024a
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः 024c
सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखस्य भृशं त्रसन्ति 025a
तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि श्रद्दधानः 025c
दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह 026a
तीक्ष्णां तनुं यः प्रथमं जहाति सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः 026c
उत्तान आस्येन हविर्जुहोति लोकस्य नाभिर्जगतः प्रतिष्ठा 027a
तस्याङ्गमङ्गानि कृताकृतं च वैश्वानरः सर्वमेव प्रपेदे 027c
प्रादेशमात्रे हृदि निश्रितं यत्तस्मिन्प्राणानात्मयाजी जुहोति 028a
तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदैवतेषु 028c
दैवं त्रिधातुं त्रिवृतं सुपर्णं ये विद्युरग्र्यं परमार्थतां च 029a
ते सर्वलोकेषु महीयमाना देवाः समर्थाः सुकृतं व्रजन्ति 029c
वेदांश्च वेद्यं च विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च 030a
सर्वं शरीरात्मनि यः प्रवेद तस्मै स्म देवाः स्पृहयन्ति नित्यम् 030c
भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं योऽण्डजमण्डमध्ये 031a
पतत्रिणं पक्षिणमन्तरिक्षे यो वेद भोग्यात्मनि दीप्तरश्मिः 031c
आवर्तमानमजरं विवर्तनं षण्णेमिकं द्वादशारं सुपर्व 032a
यस्येदमास्ये परियाति विश्वं तत्कालचक्रं निहितं गुहायाम् 032c
यः सम्प्रसादं जगतः शरीरं सर्वान्स लोकानधिगच्छतीह 033a
तस्मिन्हुतं तर्पयतीह देवांस्ते वै तृप्तास्तर्पयन्त्यास्यमस्य 033c
तेजोमयो नित्यतनुः पुराणो; लोकाननन्तानभयानुपैति 034a
भूतानि यस्मान्न त्रसन्ते कदाचित्स भूतेभ्यो न त्रसते कदाचित् 034c
अगर्हणीयो न च गर्हतेऽन्यान्स वै विप्रः परमात्मानमीक्षेत् 035a
विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च योऽर्थमृच्छति 035c
अरोषमोहः समलोष्टकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः 036a
अपेतनिन्दास्तुतिरप्रियाप्रियश्चरन्नुदासीनवदेष भिक्षुकः 036c