भीष्म उवाच 001
प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिणाम् 001a
तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर 001c
क्रमशस्त्ववधूयैनां तृतीयां वृत्तिमुत्तमाम् 002a
संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम् 002c
श्रूयतां पार्थ भद्रं ते सर्वलोकाश्रयात्मनाम् 003a
प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम् 003c
व्यास उवाच 004
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः 004a
अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत् 004c
तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् 005a
तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः 005c
नियतो नियताहारः षष्ठभक्तोऽप्रमादवान् 006a
तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः 006c
अकृष्टं वै व्रीहियवं नीवारं विघसानि च 007a
हवींषि सम्प्रयच्छेत मखेष्वत्रापि पञ्चसु 007c
वानप्रस्थाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः 008a
सद्यःप्रक्षालकाः केचित्केचिन्मासिकसञ्चयाः 008c
वार्षिकं सञ्चयं केचित्केचिद्द्वादशवार्षिकम् 009a
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थसिद्धये 009c
अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः 010a
ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः 010c
भूमौ विपरिवर्तन्ते तिष्ठेद्वा प्रपदैरपि 011a
स्थानासनैर्वर्तयन्ति सवनेष्वभिषिञ्चते 011c
दन्तोलूखलिनः केचिदश्मकुट्टास्तथापरे 012a
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत् 012c
कृष्णपक्षे पिबन्त्येके भुञ्जते च यथाक्रमम् 013a
मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः 013c
वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः 014a
एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम् 014c
चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः 015a
वानप्रस्थो गृहस्थश्च ततोऽन्यः सम्प्रवर्तते 015c
अस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः 016a
अगस्त्यः सप्त ऋषयो मधुच्छन्दोऽघमर्षणः 016c
साङ्कृतिः सुदिवा तण्डिर्यवान्नोऽथ कृतश्रमः 017a
अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिर्बुधः 017c
शलो वाकश्च निर्वाकः शून्यपालः कृतश्रमः 018a
एवन्धर्मसु विद्वांसस्ततः स्वर्गमुपागमन् 018c
तात प्रत्यक्षधर्माणस्तथा यायावरा गणाः 019a
ऋषीणामुग्रतपसां धर्मनैपुणदर्शिनाम् 019c
अवाच्यापरिमेयाश्च ब्राह्मणा वनमाश्रिताः 020a
वैखानसा वालखिल्याः सिकताश्च तथापरे 020c
कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः 021a
गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः 021c
अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषां गणाः 021e
जरया च परिद्यूनो व्याधिना च प्रपीडितः 022a
चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् 022c
सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम् 022e
आत्मयाजी सोऽऽत्मरतिरात्मक्रीडात्मसंश्रयः 023a
आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान् 023c
सद्यस्क्रांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा 024a
सदैव याजिनां यज्ञादात्मनीज्या निवर्तते 024c
त्रींश्चैवाग्नीन्यजेत्सम्यगात्मन्येवात्ममोक्षणात् 025a
प्राणेभ्यो यजुषा पञ्च षट्प्राश्नीयादकुत्सयन् 025c
केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः 026a
आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः 026c
अभयं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद्द्विजः 027a
लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते 027c
सुशीलवृत्तो व्यपनीतकल्मषो न चेह नामुत्र च कर्तुमीहते 028a
अरोषमोहो गतसन्धिविग्रहो भवेदुदासीनवदात्मविन्नरः 028c
यमेषु चैवात्मगतेषु न व्यथेत्स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः 029a
भवेद्यथेष्टा गतिरात्मयाजिनो न संशयो धर्मपरे जितेन्द्रिये 029c
ततः परं श्रेष्ठमतीव सद्गुणैरधिष्ठितं त्रीनधिवृत्तमुत्तमम् 030a
चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम् 030c