व्यास उवाच 001
द्वितीयमायुषो भागं गृहमेधी गृहे वसेत् 001a
धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य सुव्रतः 001c
गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः 002a
कुसूलधान्यः प्रथमः कुम्भीधान्यस्त्वनन्तरम् 002c
अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत् 003a
तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः 003c
षट्कर्मा वर्तयत्येकस्त्रिभिरन्यः प्रवर्तते 004a
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः 004c
गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते 004e
नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् 005a
प्राणी वा यदि वाप्राणी संस्कारं यजुषार्हति 005c
न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः 006a
न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम् 006c
नास्यानश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः 007a
तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा 007c
वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः 008a
स्वधर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः 008c
तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते 008e
न खरैः सम्प्रयातस्य स्वधर्माज्ञानकस्य च 009a
अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः 009c
संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते 010a
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना 010c
विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः 011a
अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम् 011c
भृत्यशेषं तु योऽश्नाति तमाहुर्विघसाशिनम् 011e
स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः 012a
ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः 012c
वृद्धबालातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः 013a
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया 013c
दुहित्रा दासवर्गेण विवादं न समाचरेत् 014a
एतान्विमुच्य संवादान्सर्वपापैः प्रमुच्यते 014c
एतैर्जितैस्तु जयति सर्वाल्ँलोकान्न संशयः 015a
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः 015c
अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः 016a
जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः 016c
सम्बन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ 017a
वृद्धबालातुरकृशास्त्वाकाशे प्रभविष्णवः 017c
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः 018a
छाया स्वा दाशवर्गस्तु दुहिता कृपणं परम् 018c
तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसञ्ज्वरः 019a
गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः 019c
न चार्थबद्धः कर्माणि धर्मं वा कञ्चिदाचरेत् 020a
गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम् 020c
परस्परं तथैवाहुश्चातुराश्रम्यमेव तत् 021a
ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता 021c
कुम्भीधान्यैरुञ्छशिलैः कापोतीं चास्थितैस्तथा 022a
यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते 022c
दश पूर्वान्दश परान्पुनाति च पितामहान् 023a
गृहस्थवृत्तयस्त्वेता वर्तयेद्यो गतव्यथः 023c
स चक्रचरलोकानां सदृशीं प्राप्नुयाद्गतिम् 024a
यतेन्द्रियाणामथ वा गतिरेषा विधीयते 024c
स्वर्गलोको गृहस्थानामुदारमनसां हितः 025a
स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः 025c
स्वर्गलोके गृहस्थानां प्रतिष्ठा नियतात्मनाम् 026a
ब्रह्मणा विहिता श्रेणिरेषा यस्मात्प्रमुच्यते 026c
द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते 026e
अतः परं परममुदारमाश्रमं तृतीयमाहुस्त्यजतां कलेवरम् 027a
वनौकसां गृहपतिनामनुत्तमं शृणुष्वैतत्क्लिष्टशरीरकारिणाम् 027c