शुक उवाच 001
क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च 001a
बुद्ध्यैश्वर्याभिसर्गार्थं यद्ध्यानं चात्मनः शुभम् 001c
भूय एव तु लोकेऽस्मिन्सद्वृत्तिं वृत्तिहैतुकीम् 002a
यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्णितम् 002c
वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च 003a
कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि 003c
लोकवृत्तान्ततत्त्वज्ञः पूतोऽहं गुरुशासनात् 004a
कृत्वा बुद्धिं वियुक्तात्मा त्यक्ष्याम्यात्मानमव्यथः 004c
व्यास उवाच 005
यैषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम् 005a
एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः 005c
ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः 006a
आत्मनश्च हृदि श्रेयस्त्वन्विच्छ मनसात्मनि 006c
वने मूलफलाशी च तप्यन्सुविपुलं तपः 007a
पुण्यायतनचारी च भूतानामविहिंसकः 007c
विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये 008a
काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे 008c
निःस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे 009a
अरण्ये विचरैकाकी येन केनचिदाशितः 009c
शुक उवाच 010
यदिदं वेदवचनं लोकवादे विरुध्यते 010a
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः 010c
इत्येतच्छ्रोतुमिच्छामि भगवान्प्रब्रवीतु मे 011a
कर्मणामविरोधेन कथमेतत्प्रवर्तते 011c
भीष्म उवाच 012
इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम् 012a
ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः 012c
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः 013a
यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् 013c
एको य आश्रमानेताननुतिष्ठेद्यथाविधि 014a
अकामद्वेषसंयुक्तः स परत्र महीयते 014c
चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता 015a
एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते 015c
आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः 016a
गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः 016c
कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता 017a
दक्षिणो नापवादी स्यादाहूतो गुरुमाश्रयेत् 017c
जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि 018a
यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः 018c
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः 019a
किङ्करः सर्वकारी च सर्वकर्मसु कोविदः 019c
शुचिर्दक्षो गुणोपेतो ब्रूयादिषुरिवात्वरः 020a
चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः 020c
नाभुक्तवति चाश्नीयादपीतवति नो पिबेत् 021a
न तिष्ठति तथासीत नासुप्ते प्रस्वपेत च 021c
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत् 022a
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत् 022c
अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति 023a
इदं करिष्ये भगवन्निदं चापि कृतं मया 023c
इति सर्वमनुज्ञाप्य निवेद्य गुरवे धनम् 024a
कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः 024c
यांस्तु गन्धान्रसान्वापि ब्रह्मचारी न सेवते 025a
सेवेत तान्समावृत्त इति धर्मेषु निश्चयः 025c
ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः 026a
तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः 026c
स एवं गुरवे प्रीतिमुपहृत्य यथाबलम् 027a
आश्रमेष्वाश्रमेष्वेवं शिष्यो वर्तेत कर्मणा 027c
वेदव्रतोपवासेन चतुर्थे चायुषो गते 028a
गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि 028c
धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य धर्मतः 029a
द्वितीयमायुषो भागं गृहमेधिव्रती भवेत् 029c