शुक उवाच 001
यदिदं वेदवचनं कुरु कर्म त्यजेति च 001a
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा 001c
एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे 002a
एतत्त्वन्योन्यवैरूप्ये वर्तते प्रतिकूलतः 002c
भीष्म उवाच 003
इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम् 003a
कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ 003c
यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा 004a
शृणुष्वैकमनाः पुत्र गह्वरं ह्येतदन्तरम् 004c
अस्ति धर्म इति प्रोक्तं नास्तीत्यत्रैव यो वदेत् 005a
तस्य पक्षस्य सदृशमिदं मम भवेदथ 005c
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः 006a
प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः 006c
कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते 007a
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः 007c
कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः 008a
विद्यया जायते नित्यमव्ययो ह्यव्ययात्मकः 008c
कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितरा नराः 009a
तेन ते देहजालानि रमयन्त उपासते 009c
ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः 010a
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव 010c
कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ 011a
विद्यया तदवाप्नोति यत्र गत्वा न शोचति 011c
यत्र गत्वा न म्रियते यत्र गत्वा न जायते 012a
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते 012c
यत्र तद्ब्रह्म परममव्यक्तमजरं ध्रुवम् 013a
अव्याहतमनायासममृतं चावियोगि च 013c
द्वन्द्वैर्यत्र न बाध्यन्ते मानसेन च कर्मणा 014a
समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः 014c
विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः 015a
विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम् 015c
तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते 016a
नवजं शशिनं दृष्ट्वा वक्रं तन्तुमिवाम्बरे 016c
एकादशविकारात्मा कलासम्भारसम्भृतः 017a
मूर्तिमानिति तं विद्धि तात कर्मगुणात्मकम् 017c
देवो यः संश्रितस्तस्मिन्नब्बिन्दुरिव पुष्करे 018a
क्षेत्रज्ञं तं विजानीयान्नित्यं त्यागजितात्मकम् 018c
तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् 019a
जीवमात्मगुणं विद्यादात्मानं परमात्मनः 019c
सचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् 020a
ततः परं क्षेत्रविदो वदन्ति प्रावर्तयद्यो भुवनानि सप्त 020c