व्यास उवाच 001
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः 001a
साङ्ख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया 001c
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु 002a
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः 002c
आत्मनो ध्यायिनस्तात ज्ञानमेतदनुत्तमम् 002e
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना 003a
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा 003c
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः 004a
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् 004c
क्रोधं शमेन जयति कामं सङ्कल्पवर्जनात् 005a
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति 005c
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा 006a
चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा 006c
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात् 007a
एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः 007c
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च 008a
वर्जयेद्रुषितां वाचं हिंसायुक्तां मनोनुगाम् 008c
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसः 009a
एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् 009c
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा 010a
शौचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः 010c
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति 011a
सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते 011c
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन् 012a
धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः 012c
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् 012e
मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः 013a
प्राग्रात्रापररात्रेषु धारयेन्मन आत्मना 013c
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम् 014a
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् 014c
मनस्तु पूर्वमादद्यात्कुमीनानिव मत्स्यहा 015a
ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित् 015c
तत एतानि संयम्य मनसि स्थापयेद्यतिः 016a
तथैवापोह्य सङ्कल्पान्मनो ह्यात्मनि धारयेत् 016c
पञ्च ज्ञानेन सन्धाय मनसि स्थापयेद्यतिः 017a
यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि 017c
प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते 017e
विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् 018a
वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मना 018c
सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते 018e
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः 019a
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः 019c
एवं परिमितं कालमाचरन्संशितव्रतः 020a
आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम् 020c
प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने 021a
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः 021c
प्रतिभामुपसर्गांश्चाप्युपसङ्गृह्य योगतः 022a
तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तयेत् 022c
कुर्यात्परिचयं योगे त्रैकाल्यं नियतो मुनिः 023a
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत् 023c
सन्नियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव 024a
एकाग्रश्चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः 024c
येनोपायेन शक्येत सन्नियन्तुं चलं मनः 025a
तं तं युक्तो निषेवेत न चैव विचलेत्ततः 025c
शून्या गिरिगुहाश्चैव देवतायतनानि च 026a
शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् 026c
नाभिष्वजेत्परं वाचा कर्मणा मनसापि वा 027a
उपेक्षको यताहारो लब्धालब्धे समो भवेत् 027c
यश्चैनमभिनन्देत यश्चैनमपवादयेत् 028a
समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् 028c
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् 029a
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः 029c
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः 030a
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते 030c
वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः 031a
एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः 031c
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी 032a
तावप्येतेन मार्गेण गच्छेतां परमां गतिम् 032c
अजं पुराणमजरं सनातनं यदिन्द्रियैरुपलभते नरोऽचलः 033a
अणोरणीयो महतो महत्तरं तदात्मना पश्यति युक्त आत्मवान् 033c
इदं महर्षेर्वचनं महात्मनो यथावदुक्तं मनसानुदृश्य च 034a
अवेक्ष्य चेयात्परमेष्ठिसात्म्यतां प्रयान्ति यां भूतगतिं मनीषिणः 034c