001 भीष्म उवाच 001a इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम् 001c मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे 002 शुक उवाच 002a प्रजावाञ्श्रोत्रियो यज्वा वृद्धः प्रज्ञोऽनसूयकः 002c अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति 003a तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया 003c साङ्ख्ये वा यदि वा योगे एतत्पृष्टोऽभिधत्स्व मे 004a मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं समवाप्यते 004c येनोपायेन पुरुषैस्तच्च व्याख्यातुमर्हसि 005 व्यास उवाच 005a नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् 005c नान्यत्र सर्वसन्त्यागात्सिद्धिं विन्दति कश्चन 006a महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः 006c भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु 007a भूमेर्देहो जलात्सारो ज्योतिषश्चक्षुषी स्मृते 007c प्राणापानाश्रयो वायुः खेष्वाकाशं शरीरिणाम् 008a क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भुक्तमर्छति 008c कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती 009a कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी 009c दर्शनानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये 010a शब्दं स्पर्शं तथा रूपं रसं गन्धं च पञ्चमम् 010c इन्द्रियाणि पृथक्त्वर्थान्मनसो दर्शयन्त्युत 011a इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः 011c मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः 012a इन्द्रियाणां तथैवेषां सर्वेषामीश्वरं मनः 012c नियमे च विसर्गे च भूतात्मा मनसस्तथा 013a इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः 013c प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् 014a आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतना 014c सत्त्वं हि तेजः सृजति न गुणान्वै कदाचन 015a एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः 015c मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि 016a न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः 016c मनसा सम्प्रदीप्तेन महानात्मा प्रकाशते 017a अशब्दस्पर्शरूपं तदरसागन्धमव्ययम् 017c अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् 018a अव्यक्तं व्यक्तदेहेषु मर्त्येष्वमरमाश्रितम् 018c योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे 019a विद्याभिजनसम्पन्ने ब्राह्मणे गवि हस्तिनि 019c शुनि चैव श्वपाके च पण्डिताः समदर्शिनः 020a स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च 020c वसत्येको महानात्मा येन सर्वमिदं ततम् 021a सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि 021c यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा 022a यावानात्मनि वेदात्मा तावानात्मा परात्मनि 022c य एवं सततं वेद सोऽमृतत्वाय कल्पते 023a सर्वभूतात्मभूतस्य सर्वभूतहितस्य च 023c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 024a शकुनीनामिवाकाशे जले वारिचरस्य वा 024c यथा गतिर्न दृश्येत तथैव सुमहात्मनः 025a कालः पचति भूतानि सर्वाण्येवात्मनात्मनि 025c यस्मिंस्तु पच्यते कालस्तं न वेदेह कश्चन 026a न तदूर्ध्वं न तिर्यक्च नाधो न च तिरः पुनः 026c न मध्ये प्रतिगृह्णीते नैव कश्चित्कुतश्चन 027a सर्वेऽन्तःस्था इमे लोका बाह्यमेषां न किञ्चन 027c यः सहस्रं समागच्छेद्यथा बाणो गुणच्युतः 028a नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः 028c तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः 029a सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् 029c सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति 030a तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् 030c तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते 031a अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः 031c क्षरः सर्वेषु भूतेषु दिव्यं ह्यमृतमक्षरम् 032a नवद्वारं पुरं गत्वा हंसो हि नियतो वशी 032c ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च 033a हानिभङ्गविकल्पानां नवानां संश्रयेण च 033c शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः 034a हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम् 034c तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी