व्यास उवाच 001
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते 001a
ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिध्यति 001c
तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये 002a
किं नु कर्म स्वभावोऽयं ज्ञानं कर्मेति वा पुनः 002c
तत्र चेह विवित्सा स्याज्ज्ञानं चेत्पुरुषं प्रति 003a
उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छृणु 003c
पौरुषं कारणं केचिदाहुः कर्मसु मानवाः 004a
दैवमेके प्रशंसन्ति स्वभावं चापरे जनाः 004c
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः 005a
त्रयमेतत्पृथग्भूतमविवेकं तु केचन 005c
एवमेतन्न चाप्येवमुभे चापि न चाप्युभे 006a
कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः 006c
त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः 007a
तपस्विनः प्रशान्ताश्च सत्त्वस्थाश्च कृते युगे 007c
अपृथग्दर्शिनः सर्वे ऋक्सामसु यजुःषु च 008a
कामद्वेषौ पृथग्दृष्ट्वा तपः कृत उपासते 008c
तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः 009a
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति 009c
तपसा तदवाप्नोति यद्भूत्वा सृजते जगत् 010a
तद्भूतश्च ततः सर्वो भूतानां भवति प्रभुः 010c
तदुक्तं वेदवादेषु गहनं वेददर्शिभिः 011a
वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते 011c
आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशः स्मृताः 012a
परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः 012c
परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत् 013a
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते 013c
त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा 014a
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे 014c
द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा 015a
दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः पुनः 015c
उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः 016a
गवां भूमेश्च ये चापामोषधीनां च ये रसाः 016c
अधर्मान्तर्हिता वेदा वेदधर्मास्तथाश्रमाः 017a
विक्रियन्ते स्वधर्मस्थाः स्थावराणि चराणि च 017c
यथा सर्वाणि भूतानि वृष्टिर्भौमानि वर्षति 018a
सृजते सर्वतोऽङ्गानि तथा वेदा युगे युगे 018c
विसृतं कालनानात्वमनादिनिधनं च यत् 019a
कीर्तितं तत्पुरस्तान्मे यतः संयान्ति यान्ति च 019c
धातेदं प्रभवस्थानं भूतानां संयमो यमः 020a
स्वभावेन प्रवर्तन्ते द्वन्द्वसृष्टानि भूरिशः 020c
सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रिया फलम् 021a
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि 021c