व्यास उवाच 001
अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमास्थितः 001a
उन्मज्जंश्च निमज्जंश्च ज्ञानमेवाभिसंश्रयेत् 001c
शुक उवाच 002
किं तज्ज्ञानमथो विद्या यया निस्तरति द्वयम् 002a
प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि 002c
व्यास उवाच 003
यस्तु पश्येत्स्वभावेन विना भावमचेतनः 003a
पुष्यते च पुनः सर्वान्प्रज्ञया मुक्तहेतुकः 003c
येषां चैकान्तभावेन स्वभावः कारणं मतम् 004a
पूत्वा तृणबुसीकां वै ते लभन्ते न किञ्चन 004c
ये चैनं पक्षमाश्रित्य वर्तयन्त्यल्पचेतसः 005a
स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते 005c
स्वभावो हि विनाशाय मोहकर्ममनोभवः 006a
निरुक्तमेतयोरेतत्स्वभावपरभावयोः 006c
कृष्यादीनि हि कर्माणि सस्यसंहरणानि च 007a
प्रज्ञावद्भिः प्रकॢप्तानि यानासनगृहाणि च 007c
आक्रीडानां गृहाणां च गदानामगदस्य च 008a
प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः 008c
प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति 009a
राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः 009c
पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते 010a
विद्यया तात सृष्टानां विद्यैव परमा गतिः 010c
भूतानां जन्म सर्वेषां विविधानां चतुर्विधम् 011a
जराय्वण्डमथोद्भेदं स्वेदं चाप्युपलक्षयेत् 011c
स्थावरेभ्यो विशिष्टानि जङ्गमान्युपलक्षयेत् 012a
उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्ययोः 012c
आहुर्द्विबहुपादानि जङ्गमानि द्वयानि च 013a
बहुपाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि 013c
द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च 014a
पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते 014c
पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि च 015a
मध्यमानि विशिष्टानि जातिधर्मोपधारणात् 015c
मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च 016a
धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात् 016c
धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च 017a
वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः 017c
वेदज्ञानि द्वयान्याहुः प्रवक्तॄणीतराणि च 018a
प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात् 018c
विज्ञायन्ते हि यैर्वेदाः सर्वधर्मक्रियाफलाः 019a
सयज्ञाः सखिला वेदाः प्रवक्तृभ्यो विनिःसृताः 019c
प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च 020a
आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात् 020c
धर्मद्वयं हि यो वेद स सर्वः सर्वधर्मविद् 021a
स त्यागी सत्यसङ्कल्पः स तु क्षान्तः स ईश्वरः 021c
धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः 022a
शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम् 022c
अन्तःस्थं च बहिष्ठं च येऽऽधियज्ञाधिदैवतम् 023a
जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः 023c
तेषु विश्वमिदं भूतं साग्रं च जगदाहितम् 024a
तेषां माहात्म्यभावस्य सदृशं नास्ति किञ्चन 024c
आदिं ते निधनं चैव कर्म चातीत्य सर्वशः 025a
चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयम्भुवः 025c