व्यास उवाच 001
अथ चेद्रोचयेदेतद्द्रुह्येत मनसा तथा 001a
उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत् 001c
प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः 002a
नाबुधास्तारयन्त्यन्यानात्मानं वा कथञ्चन 002c
छिन्नदोषो मुनिर्योगान्युक्तो युञ्जीत द्वादश 003a
दशकर्मसुखानर्थानुपायापायनिर्भयः 003c
चक्षुराचारवित्प्राज्ञो मनसा दर्शनेन च 004a
यच्छेद्वाङ्मनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम् 004c
ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः 004e
एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः 005a
यदि वा सर्ववेदज्ञो यदि वाप्यनृचोऽजपः 005c
यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः 006a
यदि वा पुरुषव्याघ्रो यदि वा क्लैब्यधारिता 006c
तरत्येव महादुर्गं जरामरणसागरम् 007a
एवं ह्येतेन योगेन युञ्जानोऽप्येकमन्ततः 007c
अपि जिज्ञासमानो हि शब्दब्रह्मातिवर्तते 007e
धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः 008a
अपानाक्षः प्राणयुगः प्रज्ञायुर्जीवबन्धनः 008c
चेतनाबन्धुरश्चारुराचारग्रहनेमिवान् 009a
दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः 009c
प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः 010a
क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः 010c
त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः 011a
जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते 011c
अथ सन्त्वरमाणस्य रथमेतं युयुक्षतः 012a
अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् 012c
सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते 013a
पृष्ठतः पार्श्वतश्चान्या यावत्यस्ताः प्रधारणाः 013c
क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः 014a
ज्योतिषो यत्तदैश्वर्यमहङ्कारस्य बुद्धितः 014c
अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते 015a
विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः 015c
अथास्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः 016a
निर्मथ्यमानः सूक्ष्मत्वाद्रूपाणीमानि दर्शयेत् 016c
शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः 017a
तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत 017c
अथ धूमस्य विरमे द्वितीयं रूपदर्शनम् 018a
जलरूपमिवाकाशे तत्रैवात्मनि पश्यति 018c
अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते 019a
तस्मिन्नुपरते चास्य पीतवस्त्रवदिष्यते 019c
ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते 019e
अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्ममप्यजः 020a
अशुक्लं चेतसः सौक्ष्म्यमव्यक्तं ब्रह्मणोऽस्य वै 020c
एतेष्वपि हि जातेषु फलजातानि मे शृणु 021a
जातस्य पार्थिवैश्वर्ये सृष्टिरिष्टा विधीयते 021c
प्रजापतिरिवाक्षोभ्यः शरीरात्सृजति प्रजाः 022a
अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा 022c
पृथिवीं कम्पयत्येको गुणो वायोरिति स्मृतः 023a
आकाशभूतश्चाकाशे सवर्णत्वात्प्रणश्यति 023c
वर्णतो गृह्यते चापि कामात्पिबति चाशयान् 024a
न चास्य तेजसा रूपं दृश्यते शाम्यते तथा 024c
अहङ्कारस्य विजितेः पञ्चैते स्युर्वशानुगाः 025a
षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ 025c
निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते 026a
तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते 026c
यतो निःसरते लोको भवति व्यक्तसञ्ज्ञकः 027a
तत्राव्यक्तमयीं व्याख्यां शृणु त्वं विस्तरेण मे 027c
तथा व्यक्तमयीं चैव सङ्ख्यां पूर्वं निबोध मे 027e
पञ्चविंशतितत्त्वानि तुल्यान्युभयतः समम् 028a
योगे साङ्ख्येऽपि च तथा विशेषांस्तत्र मे शृणु 028c
प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत् 029a
जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् 029c
विपरीतमतो यत्तु तदव्यक्तमुदाहृतम् 030a
द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ 030c
चतुर्लक्षणजं त्वन्यं चतुर्वर्गं प्रचक्षते 031a
व्यक्तमव्यक्तजं चैव तथा बुद्धमथेतरत् 031c
सत्त्वं क्षेत्रज्ञ इत्येतद्द्वयमप्यनुदर्शितम् 031e
द्वावात्मानौ च वेदेषु विषयेषु च रज्यतः 032a
विषयात्प्रतिसंहारः साङ्ख्यानां सिद्धिलक्षणम् 032c
निर्ममश्चानहङ्कारो निर्द्वन्द्वश्छिन्नसंशयः 033a
नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः 033c
आक्रुष्टस्ताडितश्चैव मैत्रेण ध्याति नाशुभम् 034a
वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः 034c
समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते 035a
नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः 035c
अलोलुपोऽव्यथो दान्तो न कृती न निराकृतिः 036a
नास्येन्द्रियमनेकाग्रं नातिक्षिप्तमनोरथः 036c
अहिंस्रः सर्वभूतानामीदृक्साङ्ख्यो विमुच्यते 036e
अथ योगाद्विमुच्यन्ते कारणैर्यैर्निबोध मे 037a
योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते 037c
इत्येषा भावजा बुद्धिः कथिता ते न संशयः 038a
एवं भवति निर्द्वन्द्वो ब्रह्माणं चाधिगच्छति 038c