व्यास उवाच 001
त्रयीविद्यामवेक्षेत वेदेषूक्तामथाङ्गतः 001a
ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा 001c
वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये 002a
सत्त्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ 002c
एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत् 003a
असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः 003c
सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः 004a
स्वधर्मेण क्रिया लोके कुर्वाणः सत्यसङ्गरः 004c
तिष्ठत्येतेषु गृहवान्षट्सु कर्मसु स द्विजः 005a
पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च 005c
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् 006a
वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति 006c
दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः 007a
एतैर्वर्धयते तेजः पाप्मानं चापकर्षति 007c
धूतपाप्मा तु मेधावी लघ्वाहारो जितेन्द्रियः 008a
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् 008c
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च 009a
वर्जयेद्रुषतीं वाचं हिंसां चाधर्मसंहिताम् 009c
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते 010a
ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिध्यति 010c
पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम् 011a
मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान् 011c
काममन्यूद्धतं यत्स्यान्नित्यमत्यन्तमोहितम् 012a
महता विधिदृष्टेन बलेनाप्रतिघातिना 012c
स्वभावस्रोतसा वृत्तमुह्यते सततं जगत् 012e
कालोदकेन महता वर्षावर्तेन सन्ततम् 013a
मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च 013c
निमेषोन्मेषफेनेन अहोरात्रजवेन च 014a
कामग्राहेण घोरेण वेदयज्ञप्लवेन च 014c
धर्मद्वीपेन भूतानां चार्थकामरवेण च 015a
ऋतसोपानतीरेण विहिंसातरुवाहिना 015c
युगह्रदौघमध्येन ब्रह्मप्रायभवेन च 016a
धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् 016c
एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः 017a
प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः 017c
उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः 018a
दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति 018c
संशयात्मा स कामात्मा चलचित्तोऽल्पचेतनः 019a
अप्राज्ञो न तरत्येव यो ह्यास्ते न स गच्छति 019c
अप्लवो हि महादोषमुह्यमानोऽधिगच्छति 020a
कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः 020c
तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः 021a
एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत् 021c
त्र्यवदाते कुले जातस्त्रिसन्देहस्त्रिकर्मकृत् 022a
तस्मादुन्मज्जनस्तिष्ठेन्निस्तरेत्प्रज्ञया यथा 022c
संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः 023a
प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च 023c
वर्तते तेषु गृहवानक्रुध्यन्ननसूयकः 024a
पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च 024c
सतां वृत्तेन वर्तेत क्रियाः शिष्टवदाचरेत् 025a
असंरोधेन धर्मस्य वृत्तिं लिप्सेदगर्हिताम् 025c
श्रुतिविज्ञानतत्त्वज्ञः शिष्टाचारो विचक्षणः 026a
स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसङ्करः 026c
क्रियावाञ्श्रद्दधानश्च दाता प्राज्ञोऽनसूयकः 027a
धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम् 027c
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् 028a
वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति 028c
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते 029a
ज्ञानवित्त्वेन कर्माणि कुर्वन्सर्वत्र सिध्यति 029c
अधर्मं धर्मकामो हि करोतीहाविचक्षणः 030a
धर्मं चाधर्मसङ्काशं शोचन्निव करोति सः 030c
धर्मं करोमीति करोत्यधर्ममधर्मकामश्च करोति धर्मम् 031a
उभे बालः कर्मणी न प्रजानन्स जायते म्रियते चापि देही 031c