व्यास उवाच 001
भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया 001a
ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि पृच्छते 001c
जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम् 002a
क्रिया स्यादा समावृत्तेराचार्ये वेदपारगे 002c
अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः 003a
गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित् 003c
आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् 004a
आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि 004c
प्रजासर्गेण दारैश्च ब्रह्मचर्येण वा पुनः 005a
वने गुरुसकाशे वा यतिधर्मेण वा पुनः 005c
गृहस्थस्त्वेव सर्वेषां चतुर्णां मूलमुच्यते 006a
तत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति 006c
प्रजावाञ्श्रोत्रियो यज्वा मुक्तो दिव्यैस्त्रिभिरृणैः 007a
अथान्यानाश्रमान्पश्चात्पूतो गच्छति कर्मभिः 007c
यत्पृथिव्यां पुण्यतमं विद्यास्थानं तदावसेत् 008a
यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे 008c
तपसा वा सुमहता विद्यानां पारणेन वा 009a
इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः 009c
यावदस्य भवत्यस्मिल्ँलोके कीर्तिर्यशस्करी 010a
तावत्पुण्यकृताल्ँलोकाननन्तान्पुरुषोऽश्नुते 010c
अध्यापयेदधीयीत याजयेत यजेत च 011a
न वृथा प्रतिगृह्णीयान्न च दद्यात्कथञ्चन 011c
याज्यतः शिष्यतो वापि कन्यया वा धनं महत् 012a
यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथञ्चन 012c
गृहमावसतो ह्यस्य नान्यत्तीर्थं प्रतिग्रहात् 013a
देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् 013c
अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम् 014a
द्रव्याणामतिशक्त्यापि देयमेषां कृतादपि 014c
अर्हतामनुरूपाणां नादेयं ह्यस्ति किञ्चन 015a
उच्चैःश्रवसमप्यश्वं प्रापणीयं सतां विदुः 015c
अनुनीय तथा काव्यः सत्यसन्धो महाव्रतः 016a
स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः 016c
रन्तिदेवश्च साङ्कृत्यो वसिष्ठाय महात्मने 017a
अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते 017c
आत्रेयश्चन्द्रदमयोरर्हतोर्विविधं धनम् 018a
दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः 018c
शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम् 019a
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः 019c
प्रतर्दनः काशिपतिः प्रदाय नयने स्वके 020a
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते 020c
दिव्यं मृष्टशलाकं तु सौवर्णं परमर्द्धिमत् 021a
छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यपतद्दिवम् 021c
साङ्कृतिश्च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् 022a
उपदिश्य महातेजा गतो लोकाननुत्तमान् 022c
अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् 023a
अर्बुदानि दशैकं च सराष्ट्रोऽभ्यपतद्दिवम् 023c
सावित्री कुण्डले दिव्ये शरीरं जनमेजयः 024a
ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम् 024c
सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः 025a
रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः 025c
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुन्धराम् 026a
ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वीं सपत्तनाम् 026c
अवर्षति च पर्जन्ये सर्वभूतानि चासकृत् 027a
वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः 027c
करन्धमस्य पुत्रस्तु मरुत्तो नृपतिस्तथा 028a
कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह 028c
ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः 029a
निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान् 029c
राजा मित्रसहश्चापि वसिष्ठाय महात्मने 030a
मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः 030c
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः 031a
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् 031c
सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम् 032a
मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः 032c
नाम्ना च द्युतिमान्नाम शाल्वराजः प्रतापवान् 033a
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् 033c
मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् 034a
हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान् 034c
लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः 035a
ऋश्यशृङ्गाय विपुलैः सर्वकामैरयुज्यत 035c
दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् 036a
सवत्सानां महातेजा गतो लोकाननुत्तमान् 036c
एते चान्ये च बहवो दानेन तपसा च ह 037a
महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः 037c
तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी 038a
दानयज्ञप्रजासर्गैरेते हि दिवमाप्नुवन् 038c