व्यास उवाच 001
पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च 001a
तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च 001c
ततः प्रलीने सर्वस्मिन्स्थावरे जङ्गमे तथा 002a
अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत् 002c
भूमेरपि गुणं गन्धमाप आददते यदा 003a
आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते 003c
आपस्ततः प्रतिष्ठन्ति ऊर्मिमत्यो महास्वनाः 004a
सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च 004c
अपामपि गुणांस्तात ज्योतिराददते यदा 005a
आपस्तदा आत्तगुणा ज्योतिष्युपरमन्ति च 005c
यदादित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः 006a
सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नभः 006c
ज्योतिषोऽपि गुणं रूपं वायुराददते यदा 007a
प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् 007c
ततस्तु मूलमासाद्य वायुः सम्भवमात्मनः 008a
अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश 008c
वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा 009a
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत् 009c
आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः 010a
मनसो व्यक्तमव्यक्तं ब्राह्मः स प्रतिसञ्चरः 010c
तदात्मगुणमाविश्य मनो ग्रसति चन्द्रमाः 011a
मनस्युपरतेऽध्यात्मा चन्द्रमस्यवतिष्ठते 011c
तं तु कालेन महता सङ्कल्पः कुरुते वशे 012a
चित्तं ग्रसति सङ्कल्पस्तच्च ज्ञानमनुत्तमम् 012c
कालो गिरति विज्ञानं कालो बलमिति श्रुतिः 013a
बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे 013c
आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि 014a
तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम् 014c
एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसञ्चरः 014e
यथावत्कीर्तितं सम्यगेवमेतदसंशयम् 015a
बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः 015c
एवं विस्तारसङ्क्षेपौ ब्रह्माव्यक्ते पुनः पुनः 016a
युगसाहस्रयोरादावह्नो रात्र्यास्तथैव च 016c