युधिष्ठिर उवाच 001
आद्यन्तं सर्वभूतानां श्रोतुमिच्छामि कौरव 001a
ध्यानं कर्म च कालं च तथैवायुर्युगे युगे 001c
लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम् 002a
सर्गश्च निधनं चैव कुत एतत्प्रवर्तते 002c
यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर 003a
एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे 003c
पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम् 004a
भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा 004c
जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता 005a
ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति 005c
भीष्म उवाच 006
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् 006a
जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते 006c
अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा 007a
अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात् 007c
कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः 008a
पप्रच्छ सन्देहमिमं छिन्नधर्मार्थसंशयम् 008c
भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम् 009a
ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति 009c
तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते 010a
अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित् 010c
अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम् 011a
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे समवर्तत 011c
काष्ठा निमेषा दश पञ्च चैव त्रिंशत्तु काष्ठा गणयेत्कलां ताम् 012a
त्रिंशत्कलाश्चापि भवेन्मुहूर्तो भागः कलाया दशमश्च यः स्यात् 012c
त्रिंशन्मुहूर्तश्च भवेदहश्च रात्रिश्च सङ्ख्या मुनिभिः प्रणीता 013a
मासः स्मृतो रात्र्यहनी च त्रिंशत्संवत्सरो द्वादशमास उक्तः 013c
संवत्सरं द्वे अयने वदन्ति सङ्ख्याविदो दक्षिणमुत्तरं च 013e
अहोरात्रे विभजते सूर्यो मानुषलौकिके 014a
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः 014c
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः 015a
कृष्णोऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी 015c
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः 016a
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् 016c
ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके 017a
तयोः सङ्ख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे 017c
तेषां संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः 018a
कृते त्रेतायुगे चैव द्वापरे च कलौ तथा 018c
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् 019a
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः 019c
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु 020a
एकापायेन संयान्ति सहस्राणि शतानि च 020c
एतानि शाश्वताल्ँलोकान्धारयन्ति सनातनान् 021a
एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम् 021c
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे 022a
नाधर्मेणागमः कश्चित्परस्तस्य प्रवर्तते 022c
इतरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते 023a
चौरिकानृतमायाभिरधर्मश्चोपचीयते 023c
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः 024a
कृते त्रेतादिष्वेतेषां पादशो ह्रसते वयः 024c
वेदवादाश्चानुयुगं ह्रसन्तीति च नः श्रुतम् 025a
आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम् 025c
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे 026a
अन्ये कलियुगे धर्मा यथाशक्तिकृता इव 026c
तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम् 027a
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे 027c
एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः 028a
सहस्रं परिवृत्तं तद्ब्राह्मं दिवसमुच्यते 028c
रात्रिस्तावत्तिथी ब्राह्मी तदादौ विश्वमीश्वरः 029a
प्रलयेऽध्यात्ममाविश्य सुप्त्वा सोऽन्ते विबुध्यते 029c
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः 030a
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः 030c
प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये 031a
सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः 031c
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं जगत् 032a
एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् 032c
अहर्मुखे विबुद्धः सन्सृजते विद्यया जगत् 033a
अग्र एव महाभूतमाशु व्यक्तात्मकं मनः 033c
अभिभूयेह चार्चिष्मद्व्यसृजत्सप्त मानसान् 034a
दूरगं बहुधागामि प्रार्थनासंशयात्मकम् 034c
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया 035a
आकाशं जायते तस्मात्तस्य शब्दो गुणो मतः 035c
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः 036a
बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः 036c
वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम् 037a
रोचिष्णु जायते तत्र तद्रूपगुणमुच्यते 037c
ज्योतिषोऽपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः 038a
अद्भ्यो गन्धगुणा भूमिः पूर्वैषा सृष्टिरुच्यते 038c
गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् 039a
तेषां यावत्तिथं यद्यत्तत्तत्तावद्गुणं स्मृतम् 039c
उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणात् 040a
पृथिव्यामेव तं विद्यादापो वायुं च संश्रितम् 040c
एते तु सप्त पुरुषा नानाविर्याः पृथक्पृथक् 041a
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य सर्वतः 041c
ते समेत्य महात्मानमन्योन्यमभिसंश्रिताः 042a
शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते 042c
श्रयणाच्छरीरं भवति मूर्तिमत्षोडशात्मकम् 043a
तदाविशन्ति भूतानि महान्ति सह कर्मणा 043c
सर्वभूतानि चादाय तपसश्चरणाय च 044a
आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम् 044c
स वै सृजति भूतानि स एव पुरुषः परः 045a
अजो जनयते ब्रह्मा देवर्षिपितृमानवान् 045c
लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन् 046a
नरकिन्नररक्षांसि वयःपशुमृगोरगान् 046c
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् 046e
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे 047a
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः 047c
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते 048a
अतो यन्मन्यते धाता तस्मात्तत्तस्य रोचते 048c
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु 049a
विनियोगं च भूतानां धातैव विदधात्युत 049c
केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः 050a
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः 050c
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः 051a
त्रय एतेऽपृथग्भूता नविवेकं तु केचन 051c
एवमेतच्च नैवं च यद्भूतं सृजते जगत् 052a
कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः 052c
तपो निःश्रेयसं जन्तोस्तस्य मूलं दमः शमः 053a
तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति 053c
तपसा तदवाप्नोति यद्भूतं सृजते जगत् 054a
स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः 054c
ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् 055a
अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा 055c
ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः 056a
शर्वर्यन्तेषु जातानां तान्येवैभ्यो ददाति सः 056c
नामभेदस्तपःकर्मयज्ञाख्या लोकसिद्धयः 057a
आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः 057c
यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः 058a
तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते 058c
कर्मजोऽयं पृथग्भावो द्वन्द्वयुक्तो वियोगिनः 059a
आत्मसिद्धिस्तु विज्ञाता जहाति प्रायशो बलम् 059c
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् 060a
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति 060c
आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशस्तथा 061a
परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः 061c
त्रेतायुगे विधिस्त्वेषां यज्ञानां न कृते युगे 062a
द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा 062c
अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च 063a
काम्यां पुष्टिं पृथग्दृष्ट्वा तपोभिस्तप एव च 063c
त्रेतायां तु समस्तास्ते प्रादुरासन्महाबलाः 064a
संयन्तारः स्थावराणां जङ्गमानां च सर्वशः 064c
त्रेतायां संहता ह्येते यज्ञा वर्णास्तथैव च 065a
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे 065c
दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगेऽखिलाः 066a
उत्सीदन्ते सयज्ञाश्च केवला धर्मसेतवः 066c
कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते 067a
आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः 067c
अधर्मव्रतसंयोगं यथाधर्मं युगे युगे 068a
विक्रियन्ते स्वधर्मस्था वेदवादा यथायुगम् 068c
यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि 069a
सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे 069c
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये 070a
दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु 070c
विहितं कालनानात्वमनादिनिधनं तथा 071a
कीर्तितं यत्पुरस्तात्ते तत्सूते चात्ति च प्रजाः 071c
दधाति प्रभवे स्थानं भूतानां संयमो यमः 072a
स्वभावेनैव वर्तन्ते द्वन्द्वयुक्तानि भूरिशः 072c
सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रिया फलम् 073a
प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि 073c
प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि 074a
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः 074c
दिवि सूर्यास्तथा सप्त दहन्ति शिखिनोऽर्चिषा 075a
सर्वमेतत्तदार्चिर्भिः पूर्णं जाज्वल्यते जगत् 075c