युधिष्ठिर उवाच 001
प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता 001a
गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ 002a
उग्रसेनस्य संवादं नारदे केशवस्य च 002c
उग्रसेन उवाच 003
पश्य सङ्कल्पते लोको नारदस्य प्रकीर्तने 003a
मन्ये स गुणसम्पन्नो ब्रूहि तन्मम पृच्छतः 003c
वासुदेव उवाच 004
कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः 004a
नारदस्य गुणान्साधून्सङ्क्षेपेण नराधिप 004c
न चारित्रनिमित्तोऽस्याहङ्कारो देहपातनः 005a
अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः 005c
तपस्वी नारदो बाढं वाचि नास्य व्यतिक्रमः 006a
कामाद्वा यदि वा लोभात्तस्मात्सर्वत्र पूजितः 006c
अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः 007a
ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः 007c
तेजसा यशसा बुद्ध्या नयेन विनयेन च 008a
जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः 008c
सुखशीलः सुसम्भोगः सुभोज्यः स्वादरः शुचिः 009a
सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः 009c
कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते 010a
न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः 010c
वेदश्रुतिभिराख्यानैरर्थानभिजिगीषते 011a
तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः 011c
समत्वाद्धि प्रियो नास्ति नाप्रियश्च कथञ्चन 012a
मनोनुकूलवादी च तस्मात्सर्वत्र पूजितः 012c
बहुश्रुतश्चैत्रकथः पण्डितोऽनलसोऽशठः 013a
अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः 013c
नार्थे न धर्मे कामे वा भूतपूर्वोऽस्य विग्रहः 014a
दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः 014c
दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान् 015a
वीतसम्मोहदोषश्च तस्मात्सर्वत्र पूजितः 015c
असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते 016a
अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः 016c
समाधिर्नास्य मानार्थे नात्मानं स्तौति कर्हिचित् 017a
अनीर्ष्युर्दृढसम्भाषस्तस्मात्सर्वत्र पूजितः 017c
लोकस्य विविधं वृत्तं प्रकृतेश्चाप्यकुत्सयन् 018a
संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः 018c
नासूयत्यागमं कञ्चित्स्वं तपो नोपजीवति 019a
अवन्ध्यकालो वश्यात्मा तस्मात्सर्वत्र पूजितः 019c
कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः 020a
नियमस्थोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः 020c
सापत्रपश्च युक्तश्च सुनेयः श्रेयसे परैः 021a
अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः 021c
न हृष्यत्यर्थलाभेषु नालाभेषु व्यथत्यपि 022a
स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः 022c
तं सर्वगुणसम्पन्नं दक्षं शुचिमकातरम् 023a
कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति 023c