युधिष्ठिर उवाच 001
किंशीलः किंसमाचारः किंविद्यः किम्परायणः 001a
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् 001c
भीष्म उवाच 002
मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः 002a
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003a
जैगीषव्यस्य संवादमसितस्य च भारत 003c
जैगीषव्यं महाप्राज्ञं धर्माणामागतागमम् 004a
अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत् 004c
न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि 005a
का ते प्रज्ञा कुतश्चैषा किं चैतस्याः परायणम् 005c
इति तेनानुयुक्तः स तमुवाच महातपाः 006a
महद्वाक्यमसन्दिग्धं पुष्कलार्थपदं शुचि 006c
या गतिर्या परा निष्ठा या शान्तिः पुण्यकर्मणाम् 007a
तां तेऽहं सम्प्रवक्ष्यामि यन्मां पृच्छसि वै द्विज 007c
निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल 008a
निह्नुवन्ति च ये तेषां समयं सुकृतं च ये 008c
उक्ताश्च न विवक्षन्ति वक्तारमहिते रतम् 009a
प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः 009c
नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते 010a
न चातीतानि शोचन्ति न चैनान्प्रतिजानते 010c
सम्प्राप्तानां च पूज्यानां कामादर्थेषु देवल 011a
यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः 011c
पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः 012a
मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित् 012c
अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन 013a
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः 013c
निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये 014a
न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन 014c
सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः 015a
न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्यचित् 015c
विमुच्य हृदयग्रन्थींश्चङ्कम्यन्ते यथासुखम् 015e
न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः 016a
अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित् 016c
य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा 017a
धर्ममेवानुवर्तन्ते धर्मज्ञा द्विजसत्तम 017c
ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च 017e
आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम् 018a
निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना 018c
यद्यदिच्छन्ति तन्मार्गमभिगच्छन्ति मानवाः 019a
न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः 019c
अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित् 020a
विषस्येवोद्विजेन्नित्यं सम्मानस्य विचक्षणः 020c
अवज्ञातः सुखं शेते इह चामुत्र चोभयोः 021a
विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बध्यते 021c
परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः 022a
एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः 022c
सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः 023a
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् 023c
नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः 024a
पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम् 024c