युधिष्ठिर उवाच 001
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः 001a
पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह 001c
भीष्म उवाच 002
मन एव मनुष्यस्य पूर्वरूपाणि शंसति 002a
भविष्यतश्च भद्रं ते तथैव न भविष्यतः 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003a
श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर 003c
महतस्तपसो व्युष्ट्या पश्यल्ँलोकौ परावरौ 004a
सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः 004c
ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः 005a
विचचार यथाकामं त्रिषु लोकेषु नारदः 005c
कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि 006a
ध्रुवद्वारभवां गङ्गां जगामावततार च 006c
सहस्रनयनश्चापि वज्री शम्बरपाकहा 007a
तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह 007c
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतुः 008a
नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम् 008c
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः 009a
चक्रतुस्तौ कथाशीलौ शुचिसंहृष्टमानसौ 009c
पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ 009e
अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम् 010a
पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः 010c
अभितस्तूदयन्तं तमर्कमर्कमिवापरम् 011a
आकाशे ददृशे ज्योतिरुद्यतार्चिः समप्रभम् 011c
तयोः समीपं सम्प्राप्तं प्रत्यदृश्यत भारत 012a
तत्सुपर्णार्कचरितमास्थितं वैष्णवं पदम् 012c
भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत् 012e
दिव्याभिरूपशोभाभिरप्सरोभिः पुरस्कृताम् 013a
बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम् 013c
नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम् 014a
श्रियं ददृशतुः पद्मां साक्षात्पद्मतलस्थिताम् 014c
सावरुह्य विमानाग्रादङ्गनानामनुत्तमा 015a
अभ्यगच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम् 015c
नारदानुगतः साक्षान्मघवांस्तामुपागमत् 016a
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना 016c
चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित् 017a
देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह 017c
का त्वं केन च कार्येण सम्प्राप्ता चारुहासिनि 018a
कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे 018c
श्रीरुवाच 019
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः 019a
ममात्मभावमिच्छन्तो यतन्ते परमात्मना 019c
साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते 020a
भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी 020c
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन 021a
अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः 021c
अहं धृतिरहं सिद्धिरहं त्विड्भूतिरेव च 022a
अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः 022c
राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च 023a
निवासे धर्मशीलानां विषयेषु पुरेषु च 023c
जितकाशिनि शूरे च सङ्ग्रामेष्वनिवर्तिनि 024a
निवसामि मनुष्येन्द्रे सदैव बलसूदन 024c
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि 025a
प्रश्रिते दानशीले च सदैव निवसाम्यहम् 025c
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना 026a
विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम् 026c
शक्र उवाच 027
कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने 027a
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान् 027c
श्रीरुवाच 028
स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च 028a
स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम् 028c
दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम् 029a
विप्राणामतिथीनां च तेषां नित्यमवर्तत 029c
सुसम्मृष्टगृहाश्चासञ्जितस्त्रीका हुताग्नयः 030a
गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः 030c
श्रद्दधाना जितक्रोधा दानशीलानसूयकाः 031a
भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः 031c
अमर्षणा न चान्योन्यं स्पृहयन्ति कदाचन 032a
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः 032c
दातारः सङ्गृहीतार आर्याः करुणवेदिनः 033a
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः 033c
सन्तुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः 034a
यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः 034c
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलङ्कृताः 035a
उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः 035c
नैनानभ्युदियात्सूर्यो न चाप्यासन्प्रगेनिशाः 036a
रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन् 036c
काल्यं घृतं चान्ववेक्षन्प्रयता ब्रह्मचारिणः 037a
मङ्गलानपि चापश्यन्ब्राह्मणांश्चाप्यपूजयन् 037c
सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम् 038a
अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा 038c
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् 039a
दायं च संविभागं च नित्यमेवानुमोदताम् 039c
विषण्णं त्रस्तमुद्विग्नं भयार्तं व्याधिपीडितम् 040a
हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते 040c
धर्ममेवान्ववर्तन्त न हिंसन्ति परस्परम् 041a
अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः 041c
पितृदेवातिथींश्चैव यथावत्तेऽभ्यपूजयन् 042a
अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः 042c
नैकेऽश्नन्ति सुसम्पन्नं न गच्छन्ति परस्त्रियम् 043a
सर्वभूतेष्ववर्तन्त यथात्मनि दयां प्रति 043c
नैवाकाशे न पशुषु नायोनौ न च पर्वसु 044a
इन्द्रियस्य विसर्गं तेऽरोचयन्त कदाचन 044c
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा 045a
उत्साहश्चानहङ्कारः परमं सौहृदं क्षमा 045c
सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा 046a
मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो 046c
निद्रा तन्द्रीरसम्प्रीतिरसूया चानवेक्षिता 047a
अरतिश्च विषादश्च न स्पृहा चाविशन्त तान् 047c
साहमेवङ्गुणेष्वेव दानवेष्ववसं पुरा 048a
प्रजासर्गमुपादाय नैकं युगविपर्ययम् 048c
ततः कालविपर्यासे तेषां गुणविपर्ययात् 049a
अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम् 049c
सभासदां ते वृद्धानां सत्याः कथयतां कथाः 050a
प्राहसन्नभ्यसूयंश्च सर्ववृद्धान्गुणावराः 050c
यूनः सहसमासीनान्वृद्धानभिगतान्सतः 051a
नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन् 051c
वर्तयन्त्येव पितरि पुत्राः प्रभवताऽऽत्मनः 052a
अमित्रभृत्यतां प्राप्य ख्यापयन्तोऽनपत्रपाः 052c
तथा धर्मादपेतेन कर्मणा गर्हितेन ये 053a
महतः प्राप्नुवन्त्यर्थांस्तेष्वेषामभवत्स्पृहा 053c
उच्चैश्चाप्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत् 054a
पुत्राः पितॄनभ्यवदन्भार्याश्चाभ्यवदन्पतीन् 054c
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् 055a
गुरुवन्नाभ्यनन्दन्त कुमारान्नान्वपालयन् 055c
भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते 056a
अनिष्ट्वा संविभज्याथ पितृदेवातिथीन्गुरून् 056c
न शौचमनुरुध्यन्त तेषां सूदजनास्तथा 057a
मनसा कर्मणा वाचा भक्तमासीदनावृतम् 057c
विप्रकीर्णानि धान्यानि काकमूषकभोजनम् 058a
अपावृतं पयोऽतिष्ठदुच्छिष्टाश्चास्पृशन्घृतम् 058c
कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम् 059a
द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी 059c
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते 060a
नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च 060c
बालानां प्रेक्षमाणानां स्वयं भक्षानभक्षयन् 061a
तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः 061c
पायसं कृसरं मांसमपूपानथ शष्कुलीः 062a
अपाचयन्नात्मनोऽर्थे वृथामांसान्यभक्षयन् 062c
उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेनिशाः 063a
अवर्तन्कलहाश्चात्र दिवारात्रं गृहे गृहे 063c
अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह 064a
आश्रमस्थान्विकर्मस्थाः प्रद्विषन्ति परस्परम् 064c
सङ्कराश्चाप्यवर्तन्त न च शौचमवर्तत 064e
ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये 065a
निरन्तरविशेषास्ते बहुमानावमानयोः 065c
हावमाभरणं वेषं गतिं स्थितिमवेक्षितुम् 066a
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम् 066c
स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः 067a
क्रीडारतिविहारेषु परां मुदमवाप्नुवन् 067c
प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान् 068a
नाभ्यवर्तन्त नास्तिक्याद्वर्तन्तः सम्भवेष्वपि 068c
मित्रेणाभ्यर्थितं मित्रमर्थे संशयिते क्वचित् 069a
वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु 069c
परस्वादानरुचयो विपण्यव्यवहारिणः 070a
अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः 070c
अधीयन्तेऽव्रताः केचिद्वृथाव्रतमथापरे 071a
अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः 071c
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव 072a
अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान् 072c
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः 073a
कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत 073c
प्रातः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः 074a
शिष्यानुप्रहितास्तस्मिन्नकुर्वन्गुरवश्च ह 074c
श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत 075a
अन्वशासच्च भर्तारं समाहूयाभिजल्पती 075c
प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता 076a
व्यभजंश्चापि संरम्भाद्दुःखवासं तथावसन् 076c
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम् 077a
दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्सम्भाविता ह्यपि 077c
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः 078a
अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः 078c
तेष्वेवमादीनाचारानाचरत्सु विपर्यये 079a
नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः 079c
तां मां स्वयमनुप्राप्तामभिनन्द शचीपते 080a
त्वयार्चितां मां देवेश पुरोधास्यन्ति देवताः 080c
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः 081a
सप्त देव्यो मयाष्टम्यो वासं चेष्यन्ति मेऽष्टधा 081c
आशा श्रद्धा धृतिः कान्तिर्विजितिः सन्नतिः क्षमा 082a
अष्टमी वृत्तिरेतासां पुरोगा पाकशासन 082c
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागता 083a
त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु 083c
भीष्म उवाच 084
इत्युक्तवचनां देवीमत्यर्थं तौ ननन्दतुः 084a
नारदश्च त्रिलोकर्षिर्वृत्रहन्ता च वासवः 084c
ततोऽनलसखो वायुः प्रववौ देववेश्मसु 085a
इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः 085c
शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः 086a
लक्ष्म्या सहितमासीनं मघवन्तं दिदृक्षवः 086c
ततो दिवं प्राप्य सहस्रलोचनः श्रियोपपन्नः सुहृदा सुरर्षिणा 087a
रथेन हर्यश्वयुजा सुरर्षभः सदः सुराणामभिसत्कृतो ययौ 087c
अथेङ्गितं वज्रधरस्य नारदः श्रियाश्च देव्या मनसा विचारयन् 088a
श्रियै शशंसामरदृष्टपौरुषः शिवेन तत्रागमनं महर्द्धिमत् 088c
ततोऽमृतं द्यौः प्रववर्ष भास्वती पितामहस्यायतने स्वयम्भुवः 089a
अनाहता दुन्दुभयश्च नेदिरे तथा प्रसन्नाश्च दिशश्चकाशिरे 089c
यथर्तु सस्येषु ववर्ष वासवो न धर्ममार्गाद्विचचाल कश्चन 090a
अनेकरत्नाकरभूषणा च भूः सुघोषघोषा भुवनौकसां जये 090c
क्रियाभिरामा मनुजा यशस्विनो बभुः शुभे पुण्यकृतां पथि स्थिताः 091a
नरामराः किन्नरयक्षराक्षसाः समृद्धिमन्तः सुखिनो यशस्विनः 091c
न जात्वकाले कुसुमं कुतः फलं पपात वृक्षात्पवनेरितादपि 092a
रसप्रदाः कामदुघाश्च धेनवो न दारुणा वाग्विचचार कस्यचित् 092c
इमां सपर्यां सह सर्वकामदैः श्रियाश्च शक्रप्रमुखैश्च दैवतैः 093a
पठन्ति ये विप्रसदः समागमे समृद्धकामाः श्रियमाप्नुवन्ति ते 093c
त्वया कुरूणां वर यत्प्रचोदितं भवाभवस्येह परं निदर्शनम् 094a
तदद्य सर्वं परिकीर्तितं मया परीक्ष्य तत्त्वं परिगन्तुमर्हसि 094c