युधिष्ठिर उवाच 001
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि 001a
बन्धुनाशे महीपाल राज्यनाशेऽपि वा पुनः 001c
त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ 002a
एतद्भवन्तं पृच्छामि तन्मे वक्तुमिहार्हसि 002c
भीष्म उवाच 003
पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन च 003a
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप 003c
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते 004a
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम् 004c
यस्य राज्ञो नरास्तात सात्त्विकीं वृत्तिमास्थिताः 005a
तस्य स्थैर्यं च धैर्यं च व्यवसायश्च कर्मसु 005c
अत्रैवोदाहरन्तीममितिहासं पुरातनम् 006a
बलिवासवसंवादं पुनरेव युधिष्ठिर 006c
वृत्ते देवासुरे युद्धे दैत्यदानवसङ्क्षये 007a
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ 007c
इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते 008a
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयम्भुवि 008c
रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः 009a
गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः 009c
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम् 010a
आरुह्यैरावतं शक्रस्त्रैलोक्यमनुसंययौ 010c
स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे 011a
बलिं वैरोचनिं वज्री ददर्शोपससर्प च 011c
तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम् 012a
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे 012c
दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम् 013a
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः 013c
दैत्य न व्यथसे शौर्यादथ वा वृद्धसेवया 014a
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम् 014c
शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात् 015a
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि 015c
श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान् 016a
हृतस्वबलराज्यस्त्वं ब्रूहि कस्मान्न शोचसि 016c
ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे 017a
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि 017c
बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः 018a
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि 018c
भ्रष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम् 019a
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत् 019c
एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम् 020a
श्रुत्वा सुखमसम्भ्रान्तो बलिर्वैरोचनोऽब्रवीत् 020c
निगृहीते मयि भृशं शक्र किं कत्थितेन ते 021a
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरन्दर 021c
अशक्तः पूर्वमासीस्त्वं कथञ्चिच्छक्ततां गतः 022a
कस्त्वदन्य इमा वाचः सुक्रूरा वक्तुमर्हति 022c
यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम् 023a
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः 023c
अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः 024a
एकः प्राप्नोति विजयमेकश्चैव पराभवम् 024c
मा च ते भूत्स्वभावोऽयं मया दैवतपुङ्गव 025a
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात् 025c
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् 026a
यत्त्वमेवङ्गतो वज्रिन्यद्वाप्येवङ्गता वयम् 026c
अहमासं यथाद्य त्वं भविता त्वं यथा वयम् 027a
मावमंस्था मया कर्म दुष्कृतं कृतमित्युत 027c
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति 028a
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा 028c
कालः काले नयति मां त्वां च कालो नयत्ययम् 029a
तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम् 029c
न मातृपितृशुश्रूषा न च दैवतपूजनम् 030a
नान्यो गुणसमाचारः पुरुषस्य सुखावहः 030c
न विद्या न तपो दानं न मित्राणि न बान्धवाः 031a
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् 031c
नागामिनमनर्थं हि प्रतिघातशतैरपि 032a
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः 032c
पर्यायैर्हन्यमानानां परित्राता न विद्यते 033a
इदं तु दुःखं यच्छक्र कर्ताहमिति मन्यते 033c
यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन 034a
यस्मात्तु क्रियते कर्ता तस्मात्कर्ताप्यनीश्वरः 034c
कालेन त्वाहमजयं कालेनाहं जितस्त्वया 035a
गन्ता गतिमतां कालः कालः कलयति प्रजाः 035c
इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुध्यसे 036a
केचित्त्वां बहु मन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा 036c
कथमस्मद्विधो नाम जानल्ँलोकप्रवृत्तयः 037a
कालेनाभ्याहतः शोचेन्मुह्येद्वाप्यर्थसम्भ्रमे 037c
नित्यं कालपरीतस्य मम वा मद्विधस्य वा 038a
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति 038c
अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः 039a
ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम् 039c
त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया 040a
काले परिणते कालः कालयिष्यति मामिव 040c
बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे 041a
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः 041c
इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे 042a
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम् 042c
न चेदमचलं स्थानमनन्तं वापि कस्यचित् 043a
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे 043c
अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं ध्रुवम् 044a
ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि 044c
नेयं तव न चास्माकं न चान्येषां स्थिरा मता 045a
अतिक्रम्य बहूनन्यांस्त्वयि तावदियं स्थिता 045c
कञ्चित्कालमियं स्थित्वा त्वयि वासव चञ्चला 046a
गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति 046c
राजलोका ह्यतिक्रान्ता यान्न सङ्ख्यातुमुत्सहे 047a
त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरन्दर 047c
सवृक्षौषधिरत्नेयं ससरित्पर्वताकरा 048a
तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही 048c
पृथुरैलो मयो भौमो नरकः शम्बरस्तथा 049a
अश्वग्रीवः पुलोमा च स्वर्भानुरमितध्वजः 049c
प्रह्रादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः 050a
ह्रीनिषेधः सुहोत्रश्च भूरिहा पुष्पवान्वृषः 050c
सत्येषुरृषभो राहुः कपिलाश्वो विरूपकः 051a
बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैर्ऋतः 051c
रित्थाहुत्थौ वीरताम्रौ वराहाश्वो रुचिः प्रभुः 052a
विश्वजित्प्रतिशौरिश्च वृषाण्डो विष्करो मधुः 052c
हिरण्यकशिपुश्चैव कैटभश्चैव दानवः 053a
दैत्याश्च कालखञ्जाश्च सर्वे ते नैर्ऋतैः सह 053c
एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये 054a
दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम 054c
बहवः पूर्वदैत्येन्द्राः सन्त्यज्य पृथिवीं गताः 055a
कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः 055c
सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः 056a
सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः 056c
अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः 057a
सर्वे संहननोपेताः सर्वे परिघबाहवः 057c
सर्वे मायाशतधराः सर्वे ते कामचारिणः 058a
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः 058c
सर्वे सत्यव्रतपराः सर्वे कामविहारिणः 059a
सर्वे वेदव्रतपराः सर्वे चासन्बहुश्रुताः 059c
सर्वे संहतमैश्वर्यमीश्वराः प्रतिपेदिरे 060a
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम् 060c
सर्वे यथार्थदातारः सर्वे विगतमत्सराः 061a
सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदिरे 061c
सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः 062a
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः 062c
त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः 063a
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः 063c
मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम् 064a
एवं स्वराज्यनाशे त्वं शोकं सम्प्रसहिष्यसि 064c
शोककाले शुचो मा त्वं हर्षकाले च मा हृषः 065a
अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय 065c
मां चेदभ्यागतः कालः सदायुक्तमतन्द्रितम् 066a
क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति 066c
त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह 067a
संयते मयि नूनं त्वमात्मानं बहु मन्यसे 067c
कालः प्रथममायान्मां पश्चात्त्वामनुधावति 068a
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि 068c
को हि स्थातुमलं लोके क्रुद्धस्य मम संयुगे 069a
कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव 069c
यत्तद्वर्षसहस्रान्तं पूर्णं भवितुमर्हति 070a
यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः 070c
अहमैन्द्रच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि 071a
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययात् 071c
किं हि कृत्वा त्वमिन्द्रोऽद्य किं हि कृत्वा च्युता वयम् 072a
कालः कर्ता विकर्ता च सर्वमन्यदकारणम् 072c
नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ 073a
विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत् 073c
त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव 074a
विकत्थसे मां किं बद्धं कालेन निरपत्रप 074c
त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम 075a
समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम् 075c
आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह 076a
मया विनिर्जिताः सर्वे मरुतश्च शचीपते 076c
त्वमेव शक्र जानासि देवासुरसमागमे 077a
समेता विबुधा भग्नास्तरसा समरे मया 077c
पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः 078a
सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया 078c
किं नु शक्यं मया कर्तुं यत्कालो दुरतिक्रमः 079a
न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना 079c
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः 080a
तेन त्वा मर्षये शक्र दुर्मर्षणतरस्त्वया 080c
त्वं मा परिणते काले परीतं कालवह्निना 081a
नियतं कालपाशेन बद्धं शक्र विकत्थसे 081c
अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः 082a
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा 082c
लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ 083a
वधो बन्धः प्रमोक्षश्च सर्वं कालेन लभ्यते 083c
नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः 084a
सोऽयं पचति कालो मां वृक्षे फलमिवागतम् 084c
यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते 085a
पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते 085c
न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति 086a
तेन शक्र न शोचामि नास्ति शोके सहायता 086c
यदा हि शोचतां शोको व्यसनं नापकर्षति 087a
सामर्थ्यं शोचतो नास्ति नाद्य शोचाम्यहं ततः 087c
एवमुक्तः सहस्राक्षो भगवान्पाकशासनः 088a
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः 088c
सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान् 089a
कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः 089c
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी 090a
ब्रुवन्न व्यथसे स त्वं वाक्यं सत्यपराक्रम 090c
को हि विश्वासमर्थेषु शरीरे वा शरीरभृत् 091a
कर्तुमुत्सहते लोके दृष्ट्वा सम्प्रस्थितं जगत् 091c
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम् 092a
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे 092c
न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित् 093a
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम् 093c
अनीशस्याप्रमत्तस्य भूतानि पचतः सदा 094a
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते 094c
अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु 095a
प्रयत्नेनाप्यतिक्रान्तो दृष्टपूर्वो न केनचित् 095c
पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः 096a
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः 096c
अहोरात्रांश्च मासांश्च क्षणान्काष्ठाः कला लवान् 097a
सम्पिण्डयति नः कालो वृद्धिं वार्धुषिको यथा 097c
इदमद्य करिष्यामि श्वः कर्तास्मीति वादिनम् 098a
कालो हरति सम्प्राप्तो नदीवेग इवोडुपम् 098c
इदानीं तावदेवासौ मया दृष्टः कथं मृतः 099a
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम् 099c
नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च 100a
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः 100c
उच्छ्राया विनिपातान्ता भावोऽभावस्थ एव च 100e
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी 101a
अहमासं पुरा चेति मनसापि न बुध्यसे 101c
कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा 102a
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुध्यसे 102c
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च 103a
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति 103c
भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः 104a
कालं पश्यति सुव्यक्तं पाणावामलकं यथा 104c
कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः 105a
वैरोचने कृतात्मासि स्पृहणीयो विजानताम् 105c
सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया 106a
विहरन्सर्वतोमुक्तो न क्वचित्परिषज्जसे 106c
रजश्च हि तमश्च त्वा स्पृशतो न जितेन्द्रियम् 107a
निष्प्रीतिं नष्टसन्तापं त्वमात्मानमुपाससे 107c
सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् 108a
दृष्ट्वा त्वां मम सञ्जाता त्वय्यनुक्रोशिनी मतिः 108c
नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धने 109a
आनृशंस्यं परो धर्मो अनुक्रोशस्तथा त्वयि 109c
मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात् 110a
प्रजानामपचारेण स्वस्ति तेऽस्तु महासुर 110c
यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते 111a
पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु 111c
ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् 112a
शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः 112c
वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषा यदा 113a
सङ्करं कांस्यभाण्डैश्च बलिं चापि कुपात्रकैः 113c
चातुर्वर्ण्यं यदा कृत्स्नमुन्मर्यादं भविष्यति 114a
एकैकस्ते तदा पाशः क्रमशः प्रतिमोक्ष्यते 114c
अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय 115a
सुखी भव निराबाधः स्वस्थचेता निरामयः 115c
तमेवमुक्त्वा भगवाञ्शतक्रतुः प्रतिप्रयातो गजराजवाहनः 116a
विजित्य सर्वानसुरान्सुराधिपो ननन्द हर्षेण बभूव चैकराट् 116c
महर्षयस्तुष्टुवुरञ्जसा च तं वृषाकपिं सर्वचराचरेश्वरम् 117a
हिमापहो हव्यमुदावहंस्त्वरंस्तथामृतं चार्पितमीश्वराय ह 117c
द्विजोत्तमैः सर्वगतैरभिष्टुतो विदीप्ततेजा गतमन्युरीश्वरः 118a
प्रशान्तचेता मुदितः स्वमालयं त्रिविष्टपं प्राप्य मुमोद वासवः 118c