भीष्म उवाच 001
अत्रैवोदाहरन्तीममितिहासं पुरातनम् 001a
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर 001c
श्रिया विहीनमासीनमक्षोभ्यमिव सागरम् 002a
भवाभवज्ञं भूतानामित्युवाच पुरन्दरः 002c
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः 003a
श्रिया विहीनो नमुचे शोचस्याहो न शोचसि 003c
नमुचिरुवाच 004
अनवाप्यं च शोकेन शरीरं चोपतप्यते 004a
अमित्राश्च प्रहृष्यन्ति नास्ति शोके सहायता 004c
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् 005a
सन्तापाद्भ्रश्यते रूपं धर्मश्चैव सुरेश्वर 005c
विनीय खलु तद्दुःखमागतं वैमनस्यजम् 006a
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता 006c
यथा यथा हि पुरुषः कल्याणे कुरुते मनः 007a
तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः 007c
एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता 008a
तेनानुशिष्टः प्रवणादिवोदकं यथा नियुक्तोऽस्मि तथा वहामि 008c
भावाभावावभिजानन्गरीयो जानामि श्रेयो न तु तत्करोमि 009a
आशाः सुशर्म्याः सुहृदां सुकुर्वन्यथा नियुक्तोऽस्मि तथा वहामि 009c
यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा 010a
भवितव्यं यथा यच्च भवत्येव तथा तथा 010c
यत्र यत्रैव संयुङ्क्ते धाता गर्भं पुनः पुनः 011a
तत्र तत्रैव वसति न यत्र स्वयमिच्छति 011c
भावो योऽयमनुप्राप्तो भवितव्यमिदं मम 012a
इति यस्य सदा भावो न स मुह्येत्कदाचन 012c
पर्यायैर्हन्यमानानामभियोक्ता न विद्यते 013a
दुःखमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते 013c
ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च 014a
कान्नापदो नोपनमन्ति लोके परावरज्ञास्तु न सम्भ्रमन्ति 014c
न पण्डितः क्रुध्यति नापि सज्जते न चापि संसीदति न प्रहृष्यति 015a
न चार्थकृच्छ्रव्यसनेषु शोचति स्थितः प्रकृत्या हिमवानिवाचलः 015c
यमर्थसिद्धिः परमा न हर्षयेत्तथैव काले व्यसनं न मोहयेत् 016a
सुखं च दुःखं च तथैव मध्यमं निषेवते यः स धुरन्धरो नरः 016c
यां यामवस्थां पुरुषोऽधिगच्छेत्तस्यां रमेतापरितप्यमानः 017a
एवं प्रवृद्धं प्रणुदेन्मनोजं सन्तापमायासकरं शरीरात् 017c
तत्सदः स परिषत्सभासदः प्राप्य यो न कुरुते सभाभयम् 018a
धर्मतत्त्वमवगाह्य बुद्धिमान्योऽभ्युपैति स पुमान्धुरन्धरः 018c
प्राज्ञस्य कर्माणि दुरन्वयानि न वै प्राज्ञो मुह्यति मोहकाले 019a
स्थानाच्च्युतश्चेन्न मुमोह गौतमस्तावत्कृच्छ्रामापदं प्राप्य वृद्धः 019c
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा 020a
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना 020c
यदेवमनुजातस्य धातारो विदधुः पुरा 021a
तदेवानुभविष्यामि किं मे मृत्युः करिष्यति 021c
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति 022a
प्राप्तव्यान्येव प्राप्नोति दुःखानि च सुखानि च 022c
एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः 023a
कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः 023c