भीष्म उवाच 001
शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः 001a
स्वरूपिणीं शरीराद्धि तदा निष्क्रामतीं श्रियम् 001c
तां दीप्तां प्रभया दृष्ट्वा भगवान्पाकशासनः 002a
विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः 002c
बले केयमपक्रान्ता रोचमाना शिखण्डिनी 003a
त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा 003c
बलिरुवाच 004
न हीमामासुरीं वेद्मि न दैवीं न च मानुषीम् 004a
त्वमेवैनां पृच्छ मा वा यथेष्टं कुरु वासव 004c
शक्र उवाच 005
का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी 005a
अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते 005c
का त्वं तिष्ठसि मायेव दीप्यमाना स्वतेजसा 006a
हित्वा दैत्येश्वरं सुभ्रु तन्ममाचक्ष्व तत्त्वतः 006c
श्रीरुवाच 007
न मा विरोचनो वेद न मा वैरोचनो बलिः 007a
आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः 007c
भूतिर्लक्ष्मीति मामाहुः श्रीरित्येवं च वासव 008a
त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः 008c
शक्र उवाच 009
किमिदं त्वं मम कृते उताहो बलिनः कृते 009a
दुःसहे विजहास्येनं चिरसंवासिनी सती 009c
श्रीरुवाच 010
न धाता न विधाता मां विदधाति कथञ्चन 010a
कालस्तु शक्र पर्यायान्मैनं शक्रावमन्यथाः 010c
शक्र उवाच 011
कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि 011a
कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते 011c
श्रीरुवाच 012
सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि 012a
पराक्रमे च धर्मे च पराचीनस्ततो बलिः 012c
ब्रह्मण्योऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः 013a
अभ्यसूयद्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्घृतम् 013c
यज्ञशीलः पुरा भूत्वा मामेव यजतेत्ययम् 014a
प्रोवाच लोकान्मूढात्मा कालेनोपनिपीडितः 014c
अपाकृता ततः शक्र त्वयि वत्स्यामि वासव 015a
अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च 015c
शक्र उवाच 016
अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् 016a
यस्त्वामेको विषहितुं शक्नुयात्कमलालये 016c
श्रीरुवाच 017
नैव देवो न गन्धर्वो नासुरो न च राक्षसः 017a
यो मामेको विषहितुं शक्तः कश्चित्पुरन्दर 017c
शक्र उवाच 018
तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे 018a
तत्करिष्यामि ते वाक्यमृतं त्वं वक्तुमर्हसि 018c
श्रीरुवाच 019
स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् 019a
विधिना वेददृष्टेन चतुर्धा विभजस्व माम् 019c
शक्र उवाच 020
अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम् 020a
न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके 020c
भूमिरेव मनुष्येषु धारणी भूतभाविनी 021a
सा ते पादं तितिक्षेत समर्था हीति मे मतिः 021c
श्रीरुवाच 022
एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः 022a
द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु 022c
शक्र उवाच 023
आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः 023a
तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम् 023c
श्रीरुवाच 024
एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः 024a
तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु 024c
शक्र उवाच 025
यस्मिन्देवाश्च यज्ञाश्च यस्मिन्वेदाः प्रतिष्ठिताः 025a
तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति 025c
श्रीरुवाच 026
एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः 026a
चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु 026c
शक्र उवाच 027
ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः 027a
ते ते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम् 027c
श्रीरुवाच 028
एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः 028a
एवं विनिहितां शक्र भूतेषु परिधत्स्व माम् 028c
शक्र उवाच 029
भूतानामिह वै यस्त्वा मया विनिहितां सतीम् 029a
उपहन्यात्स मे द्विष्यात्तथा शृण्वन्तु मे वचः 029c
भीष्म उवाच 030
ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत् 030a
यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम् 030c
पश्चिमां तावदेवापि तथोदीचीं दिवाकरः 031a
तथा मध्यन्दिने सूर्यो अस्तमेति यदा तदा 031c
पुनर्देवासुरं युद्धं भावि जेतास्मि वस्तदा 031e
सर्वाल्ँलोकान्यदादित्य एकस्थस्तापयिष्यति 032a
तदा देवासुरे युद्धे जेताहं त्वां शतक्रतो 032c
शक्र उवाच 033
ब्रह्मणास्मि समादिष्टो न हन्तव्यो भवानिति 033a
तेन तेऽहं बले वज्रं न विमुञ्चामि मूर्धनि 033c
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर 034a
आदित्यो नावतपिता कदाचिन्मध्यतः स्थितः 034c
स्थापितो ह्यस्य समयः पूर्वमेव स्वयम्भुवा 035a
अजस्रं परियात्येष सत्येनावतपन्प्रजाः 035c
अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा 036a
येन संयाति लोकेषु शीतोष्णे विसृजन्रविः 036c
भीष्म उवाच 037
एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत 037a
जगाम दक्षिणामाशामुदीचीं तु पुरन्दरः 037c
इत्येतद्बलिना गीतमनहङ्कारसञ्ज्ञितम् 038a
वाक्यं श्रुत्वा सहस्राक्षः खमेवारुरुहे तदा 038c