भीष्म उवाच 001
पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत् 001a
निःश्वसन्तं यथा नागं प्रव्याहाराय भारत 001c
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः 002a
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् 002c
दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले 003a
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि 003c
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् 004a
विनिपातमिमं चाद्य शोचस्याहो न शोचसि 004c
बलिरुवाच 005
अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः 005a
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् 005c
अन्तवन्त इमे देहा भूतानाममराधिप 006a
तेन शक्र न शोचामि नापराधादिदं मम 006c
जीवितं च शरीरं च प्रेत्य वै सह जायते 007a
उभे सह विवर्धेते उभे सह विनश्यतः 007c
तदीदृशमिदं भावमवशः प्राप्य केवलम् 008a
यद्येवमभिजानामि का व्यथा मे विजानतः 008c
भूतानां निधनं निष्ठा स्रोतसामिव सागरः 009a
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत् 009c
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः 010a
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति 010c
बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम् 011a
विपाप्मा लभते सत्त्वं सत्त्वस्थः सम्प्रसीदति 011c
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः 012a
कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः 012c
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा 013a
सुखदुःखफलं चैव न द्वेष्मि न च कामये 013c
हतं हन्ति हतो ह्येव यो नरो हन्ति कञ्चन 014a
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः 014c
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते 015a
अकर्ता ह्येव भवति कर्ता त्वेव करोति तत् 015c
को हि लोकस्य कुरुते विनाशप्रभवावुभौ 016a
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः 016c
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 017a
एतद्योनीनि भूतानि तत्र का परिदेवना 017c
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः 018a
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः 018c
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा 019a
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः 019c
दग्धमेवानुदहति हतमेवानुहन्ति च 020a
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः 020c
नास्य द्वीपः कुतः पारं नावारः सम्प्रदृश्यते 021a
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् 021c
यदि मे पश्यतः कालो भूतानि न विनाशयेत् 022a
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते 022c
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे 023a
बिभ्रतं गार्दभं रूपमादिश्य परिगर्हसे 023c
इच्छन्नहं विकुर्यां हि रूपाणि बहुधात्मनः 024a
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे 024c
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति 025a
कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम् 025c
पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरन्दर 026a
अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम् 026c
त्वमप्येवमपेक्षस्व मात्मना विस्मयं गमः 027a
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन 027c
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा 028a
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् 028c
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः 029a
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव 029c
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः 030a
इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः 030c
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते 031a
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे 031c
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् 032a
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा 032c
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते 033a
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा 033c
कल्याणी रूपसम्पन्ना दुर्भगा शक्र दृश्यते 034a
अलक्षणा विरूपा च सुभगा शक्र दृश्यते 034c
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् 035a
यत्त्वमेवङ्गतो वज्रिन्यद्वाप्येवङ्गता वयम् 035c
न कर्म तव नान्येषां कुतो मम शतक्रतो 036a
ऋद्धिर्वाप्यथ वा नर्द्धिः पर्यायकृतमेव तत् 036c
पश्यामि त्वा विराजन्तं देवराजमवस्थितम् 037a
श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि 037c
एतच्चैवं न चेत्कालो मामाक्रम्य स्थितो भवेत् 038a
पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना 038c
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः 039a
कालः स्थापयते सर्वं कालः पचति वै तथा 039c
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् 040a
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति 040c
द्वादशानां हि भवतामादित्यानां महात्मनाम् 041a
तेजांस्येकेन सर्वेषां देवराज हृतानि मे 041c
अहमेवोद्वहाम्यापो विसृजामि च वासव 042a
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च 042c
संरक्षामि विलुम्पामि ददाम्यहमथाददे 043a
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः 043c
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप 044a
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे 044c
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते 045a
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया 045c
मासार्धमासवेश्मानमहोरात्राभिसंवृतम् 046a
ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः 046c
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया 047a
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा 047c
गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा 048a
अनादिनिधनं चाहुरक्षरं परमेव च 048c
सत्त्वेषु लिङ्गमावेश्य नलिङ्गमपि तत्स्वयम् 049a
मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः 049c
भूतानां तु विपर्यासं मन्यते गतवानिति 050a
न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः 050c
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यसि 051a
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते 051c
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा 051e
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् 052a
ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा 052c
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे 053a
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा 053c
तं कालमवजानीहि यस्य सर्वमिदं वशे 053e
बहूनीन्द्रसहस्राणि समतीतानि वासव 054a
बलवीर्योपपन्नानि यथैव त्वं शचीपते 054c
त्वामप्यतिबलं शक्रं देवराजं बलोत्कटम् 055a
प्राप्ते काले महावीर्यः कालः संशमयिष्यति 055c
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव 056a
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् 056c
यामेतां प्राप्य जानीषे राजश्रियमनुत्तमाम् 057a
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति 057c
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम् 058a
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप 058c
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि 059a
त्वामप्येवङ्गतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति 059c