युधिष्ठिर उवाच 001
यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम् 001a
कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
वासवस्य च संवादं बलेर्वैरोचनस्य च 002c
पितामहमुपागत्य प्रणिपत्य कृताञ्जलिः 003a
सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः 003c
यस्य स्म ददतो वित्तं न कदाचन हीयते 004a
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् 004c
स एव ह्यस्तमयते स स्म विद्योतते दिशः 005a
स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः 005c
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् 005e
स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः 006a
सोऽग्निस्तपति भूतानि पृथिवी च भवत्युत 006c
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् 006e
ब्रह्मोवाच 007
नैतत्ते साधु मघवन्यदेतदनुपृच्छसि 007a
पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम् 007c
उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः 008a
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते 008c
शक्र उवाच 009
यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान् 009a
हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम् 009c
ब्रह्मोवाच 010
मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति 010a
न्यायांस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया 010c
भीष्म उवाच 011
एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा 011a
चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः 011c
ततो ददर्श स बलिं खरवेषेण संवृतम् 012a
यथाख्यातं भगवता शून्यागारकृतालयम् 012c
शक्र उवाच 013
खरयोनिमनुप्राप्तस्तुषभक्षोऽसि दानव 013a
इयं ते योनिरधमा शोचस्याहो न शोचसि 013c
अदृष्टं बत पश्यामि द्विषतां वशमागतम् 014a
श्रिया विहीनं मित्रैश्च भ्रष्टवीर्यपराक्रमम् 014c
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः 015a
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् 015c
त्वन्मुखाश्चैव दैतेया व्यतिष्ठंस्तव शासने 016a
अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह 016c
इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि 016e
यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन् 017a
ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम् 017c
यत्ते सहस्रसमिता ननृतुर्देवयोषितः 018a
बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया 018c
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः 019a
कथमद्य तदा चैव मनस्ते दानवेश्वर 019c
छत्रं तवासीत्सुमहत्सौवर्णं मणिभूषितम् 020a
ननृतुर्यत्र गन्धर्वाः षट्सहस्राणि सप्तधा 020c
यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः 021a
यत्राददः सहस्राणामयुतानि गवां दश 021c
यदा तु पृथिवीं सर्वां यजमानोऽनुपर्ययाः 022a
शम्याक्षेपेण विधिना तदासीत्किं नु ते हृदि 022c
न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च 023a
ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप 023c
बलिरुवाच 024
न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च 024a
ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव 024c
गुहायां निहितानि त्वं मम रत्नानि पृच्छसि 025a
यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि 025c
न त्वेतदनुरूपं ते यशसो वा कुलस्य वा 026a
समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि 026c
न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु 027a
कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः 027c
त्वं तु प्राकृतया बुद्ध्या पुरन्दर विकत्थसे 028a
यदाहमिव भावी त्वं तदा नैवं वदिष्यसि 028c