युधिष्ठिर उवाच 001
यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाशुभम् 001a
पुरुषं योजयत्येव फलयोगेन भारत 001c
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः 002a
एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003a
प्रह्रादस्य च संवादमिन्द्रस्य च युधिष्ठिर 003c
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् 004a
अस्तम्भमनहङ्कारं सत्त्वस्थं समये रतम् 004c
तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवेशनम् 005a
चराचराणां भूतानां विदितप्रभवाप्ययम् 005c
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च 006a
काञ्चने वाथ लोष्टे वा उभयोः समदर्शनम् 006c
आत्मनिःश्रेयसज्ञाने धीरं निश्चितनिश्चयम् 007a
परावरज्ञं भूतानां सर्वज्ञं समदर्शनम् 007c
शक्रः प्रह्रादमासीनमेकान्ते संयतेन्द्रियम् 008a
बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत् 008c
यैः कैश्चित्सम्मतो लोके गुणैः स्यात्पुरुषो नृषु 009a
भवत्यनपगान्सर्वांस्तान्गुणाल्ँलक्षयामहे 009c
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह 010a
आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे 010c
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः 011a
श्रिया विहीनः प्रह्राद शोचितव्ये न शोचसि 011c
प्रज्ञालाभात्तु दैतेय उताहो धृतिमत्तया 012a
प्रह्राद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः 012c
इति सञ्चोदितस्तेन धीरो निश्चितनिश्चयः 013a
उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन् 013c
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते 014a
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः 014c
स्वभावात्सम्प्रवर्तन्ते निवर्तन्ते तथैव च 015a
सर्वे भावास्तथाभावाः पुरुषार्थो न विद्यते 015c
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः 016a
स्वयं तु कुर्वतस्तस्य जातु मानो भवेदिह 016c
यस्तु कर्तारमात्मानं मन्यते साध्वसाधुनोः 017a
तस्य दोषवती प्रज्ञा स्वमूर्त्यज्ञेति मे मतिः 017c
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् 018a
आरम्भास्तस्य सिध्येरन्न च जातु पराभवेत् 018c
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च 019a
लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः 019c
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृत्तिमेव च 020a
अप्रयत्नेन पश्यामः केषाञ्चित्तत्स्वभावतः 020c
प्रतिरूपधराः केचिद्दृश्यन्ते बुद्धिसत्तमाः 021a
विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम् 021c
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा 022a
शुभाशुभास्तदा तत्र तस्य किं मानकारणम् 022c
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः 023a
आत्मप्रतिष्ठिता प्रज्ञा मम नास्ति ततोऽन्यथा 023c
कर्मजं त्विह मन्येऽहं फलयोगं शुभाशुभम् 024a
कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु 024c
यथा वेदयते कश्चिदोदनं वायसो वदन् 025a
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् 025c
विकारानेव यो वेद न वेद प्रकृतिं पराम् 026a
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः 026c
स्वभावभाविनो भावान्सर्वानेवेह निश्चये 027a
बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति 027c
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम् 028a
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् 028c
निर्ममो निरहङ्कारो निरीहो मुक्तबन्धनः 029a
स्वस्थोऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ 029c
कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः 030a
नायासो विद्यते शक्र पश्यतो लोकविद्यया 030c
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे 031a
द्वेष्टारं न च पश्यामि यो ममाद्य ममायते 031c
नोर्ध्वं नावाङ्न तिर्यक्च न क्वचिच्छक्र कामये 032a
न विज्ञाने न विज्ञेये नाज्ञाने शर्म विद्यते 032c
शक्र उवाच 033
येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते 033a
प्रब्रूहि तमुपायं मे सम्यक्प्रह्राद पृच्छते 033c
प्रह्राद उवाच 034
आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया 034a
वृद्धशुश्रूषया शक्र पुरुषो लभते महत् 034c
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः 035a
स्वभावादेव तत्सर्वं यत्किञ्चिदनुपश्यसि 035c
भीष्म उवाच 036
इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत् 036a
प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत् 036c
स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः 037a
असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम् 037c