युधिष्ठिर उवाच 001
द्विजातयो व्रतोपेता यदिदं भुञ्जते हविः 001a
अन्नं ब्राह्मणकामाय कथमेतत्पितामह 001c
भीष्म उवाच 002
अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः 002a
वेदोक्तेषु च भुञ्जाना व्रतलुप्ता युधिष्ठिर 002c
युधिष्ठिर उवाच 003
यदिदं तप इत्याहुरुपवासं पृथग्जनाः 003a
एतत्तपो महाराज उताहो किं तपो भवेत् 003c
भीष्म उवाच 004
मासपक्षोपवासेन मन्यन्ते यत्तपो जनाः 004a
आत्मतन्त्रोपघातः स न तपस्तत्सतां मतम् 004c
त्यागश्च सन्नतिश्चैव शिष्यते तप उत्तमम् 004e
सदोपवासी च भवेद्ब्रह्मचारी सदैव च 005a
मुनिश्च स्यात्सदा विप्रो दैवतं च सदा भजेत् 005c
कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत 006a
अमांसाशी सदा च स्यात्पवित्रं च सदा जपेत् 006c
अमृताशी सदा च स्यान्न च स्याद्विषभोजनः 007a
विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः 007c
युधिष्ठिर उवाच 008
कथं सदोपवासी स्याद्ब्रह्मचारी कथं भवेत् 008a
विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः 008c
भीष्म उवाच 009
अन्तरा प्रातराशं च सायमाशं तथैव च 009a
सदोपवासी च भवेद्यो न भुङ्क्ते कथञ्चन 009c
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः 010a
ऋतवादी सदा च स्याज्ज्ञाननित्यश्च यो नरः 010c
अभक्षयन्वृथामांसममांसाशी भवत्युत 011a
दाननित्यः पवित्रश्च अस्वप्नश्च दिवास्वपन् 011c
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा स ह 012a
अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर 012c
अभुक्तवत्सु नाश्नानः सततं यस्तु वै द्विजः 013a
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत 013c
देवताभ्यः पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह 014a
अवशिष्टं तु योऽश्नाति तमाहुर्विघसाशिनम् 014c
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणा सह 015a
उपस्थिताश्चाप्सरोभिः परियान्ति दिवौकसः 015c
देवताभिश्च ये सार्धं पितृभिश्चोपभुञ्जते 016a
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा 016c