युधिष्ठिर उवाच 001
किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुते 001a
किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत 001c
भीष्म उवाच 002
दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः 002a
सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः 002c
नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते 003a
क्रिया तपश्च वेदाश्च दमे सर्वं प्रतिष्ठितम् 003c
दमस्तेजो वर्धयति पवित्रं दम उच्यते 004a
विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत् 004c
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते 005a
सुखं लोके विपर्येति मनश्चास्य प्रसीदति 005c
तेजो दमेन ध्रियते न तत्तीक्ष्णोऽधिगच्छति 006a
अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति 006c
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् 007a
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयम्भुवा 007c
आश्रमेषु च सर्वेषु दम एव विशिष्यते 008a
यच्च तेषु फलं धर्मे भूयो दान्ते तदुच्यते 008c
तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः 009a
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता 009c
अक्रोध आर्जवं नित्यं नातिवादो न मानिता 010a
गुरुपूजानसूया च दया भूतेष्वपैशुनम् 010c
जनवादमृषावादस्तुतिनिन्दाविवर्जनम् 011a
साधुकामश्चास्पृहयन्नायाति प्रत्ययं नृषु 011c
अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः 012a
सुवृत्तः शीलसम्पन्नः प्रसन्नात्मात्मवान्बुधः 012c
प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति 012e
सर्वभूतहिते युक्तो न स्मयाद्द्वेष्टि वै जनम् 013a
महाह्रद इवाक्षोभ्य प्रज्ञातृप्तः प्रसीदति 013c
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः 014a
नमस्यः सर्वभूतानां दान्तो भवति ज्ञानवान् 014c
न हृष्यति महत्यर्थे व्यसने च न शोचति 015a
स वै परिमितप्रज्ञः स दान्तो द्विज उच्यते 015c
कर्मभिः श्रुतसम्पन्नः सद्भिराचरितैः शुभैः 016a
सदैव दमसंयुक्तस्तस्य भुङ्क्ते महत्फलम् 016c
अनसूया क्षमा शान्तिः सन्तोषः प्रियवादिता 017a
सत्यं दानमनायासो नैष मार्गो दुरात्मनाम् 017c
कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः 018a
विक्रम्य घोरे तपसि ब्राह्मणः संशितव्रतः 018c
कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान् 018e