भीष्म उवाच 001
जनको जनदेवस्तु ज्ञापितः परमर्षिणा 001a
पुनरेवानुपप्रच्छ साम्पराये भवाभवौ 001c
भगवन्यदिदं प्रेत्य सञ्ज्ञा भवति कस्यचित् 002a
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति 002c
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम 003a
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति 003c
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु 004a
कस्मै क्रियेत कल्पेन निश्चयः कोऽत्र तत्त्वतः 004c
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम् 005a
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् 005c
उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते 006a
अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम् 006c
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु 006e
धातवः पञ्चशाखोऽयं खं वायुर्ज्योतिरम्बु भूः 007a
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः 007c
आकाशं वायुरूष्मा च स्नेहो यच्चापि पार्थिवम् 008a
एष पञ्चसमाहारः शरीरमिति नैकधा 008c
ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसङ्ग्रहः 008e
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः 009a
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः 009c
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च 010a
इन्द्रियाणीति पञ्चैते चित्तपूर्वङ्गमा गुणाः 010c
तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा 011a
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च 011c
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्त्यथ 012a
एते ह्यामरणात्पञ्च षड्गुणा ज्ञानसिद्धये 012c
तेषु कर्मनिसर्गश्च सर्वतत्त्वार्थनिश्चयः 013a
तमाहुः परमं शुक्रं बुद्धिरित्यव्ययं महत् 013c
इमं गुणसमाहारमात्मभावेन पश्यतः 014a
असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति 014c
अनात्मेति च यद्दृष्टं तेनाहं न ममेत्यपि 015a
वर्तते किमधिष्ठाना प्रसक्ता दुःखसन्ततिः 015c
तत्र सम्यङ्मनो नाम त्यागशास्त्रमनुत्तमम् 016a
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति 016c
त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् 017a
नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः 017c
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि 018a
सुखत्यागे तपोयोगः सर्वत्यागे समापना 018c
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः 019a
विप्रहाणाय दुःखस्य दुर्गतिर्ह्यन्यथा भवेत् 019c
पञ्च ज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि 020a
मनःषष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु 020c
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम् 021a
प्रजनानन्दयोः शेफो विसर्गे पायुरिन्द्रियम् 021c
वाक्तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः 022a
एवमेकादशैतानि बुद्ध्या त्ववसृजेन्मनः 022c
कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसङ्ग्रहे 023a
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः 023c
एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये 024a
येन यस्त्रिविधो भावः पर्यायात्समुपस्थितः 024c
सात्त्विको राजसश्चैव तामसश्चैव ते त्रयः 025a
त्रिविधा वेदना येषु प्रसूता सर्वसाधना 025c
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता 026a
अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः 026c
अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा 027a
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः 027c
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता 028a
कथञ्चिदपि वर्तन्ते विविधास्तामसा गुणाः 028c
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् 029a
वर्तते सात्त्विको भाव इत्यपेक्षेत तत्तथा 029c
यत्तु सन्तापसंयुक्तमप्रीतिकरमात्मनः 030a
प्रवृत्तं रज इत्येव ततस्तदभिचिन्तयेत् 030c
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् 031a
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् 031c
तद्धि श्रोत्राश्रयं भूतं शब्दः श्रोत्रं समाश्रितः 032a
नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा 032c
एवं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी 033a
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् 033c
स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति 034a
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् 034c
तेषामयुगपद्भाव उच्छेदो नास्ति तामसः 035a
आस्थितो युगपद्भावे व्यवहारः स लौकिकः 035c
इन्द्रियाण्यवसृज्यापि दृष्ट्वा पूर्वं श्रुतागमम् 036a
चिन्तयन्नानुपर्येति त्रिभिरेवान्वितो गुणैः 036c
यत्तमोपहतं चित्तमाशु सञ्चारमध्रुवम् 037a
करोत्युपरमं काले तदाहुस्तामसं सुखम् 037c
यद्यदागमसंयुक्तं न कृत्स्नमुपशाम्यति 038a
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् 038c
एवमेष प्रसङ्ख्यातः स्वकर्मप्रत्ययी गुणः 039a
कथञ्चिद्वर्तते सम्यक्केषाञ्चिद्वा न वर्तते 039c
एवमाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः 040a
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते 040c
एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् 041a
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुतः 041c
यथार्णवगता नद्यो व्यक्तीर्जहति नाम च 042a
न च स्वतां नियच्छन्ति तादृशः सत्त्वसङ्क्षयः 042c
एवं सति कुतः सञ्ज्ञा प्रेत्यभावे पुनर्भवेत् 043a
प्रतिसम्मिश्रिते जीवे गृह्यमाणे च मध्यतः 043c
इमां तु यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः 044a
न लिप्यते कर्मफलैरनिष्टैः पत्रं बिसस्येव जलेन सिक्तम् 044c
दृढैश्च पाशैर्बहुभिर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च 045a
यदा ह्यसौ सुखदुःखे जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः 045c
श्रुतिप्रमाणागममङ्गलैश्च शेते जरामृत्युभयादतीतः 045e
क्षीणे च पुण्ये विगते च पापे ततोनिमित्ते च फले विनष्टे 046a
अलेपमाकाशमलिङ्गमेवमास्थाय पश्यन्ति महद्ध्यसक्ताः 046c
यथोर्णनाभिः परिवर्तमानस्तन्तुक्षये तिष्ठति पात्यमानः 047a
तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्ट इवाद्रिमर्च्छन् 047c
यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाप्युरगो यथावत् 048a
विहाय गच्छत्यनवेक्षमाणस्तथा विमुक्तो विजहाति दुःखम् 048c
द्रुमं यथा वाप्युदके पतन्तमुत्सृज्य पक्षी प्रपतत्यसक्तः 049a
तथा ह्यसौ सुखदुःखे विहाय मुक्तः परार्ध्यां गतिमेत्यलिङ्गः 049c
अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य 050a
न खलु मम तुषोऽपि दह्यतेऽत्र स्वयमिदमाह किल स्म भूमिपालः 050c
इदममृतपदं विदेहराजः स्वयमिह पञ्चशिखेन भाष्यमाणः 051a
निखिलमभिसमीक्ष्य निश्चितार्थं परमसुखी विजहार वीतशोकः 051c
इमं हि यः पठति विमोक्षनिश्चयं न हीयते सततमवेक्षते तथा 052a
उपद्रवान्नानुभवत्यदुःखितः प्रमुच्यते कपिलमिवैत्य मैथिलः 052c