युधिष्ठिर उवाच 001
केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः 001a
जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य मानुषान् 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
येन वृत्तेन वृत्तज्ञः स जगाम महत्सुखम् 002c
जनको जनदेवस्तु मिथिलायां जनाधिपः 003a
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने 003c
तस्य स्म शतमाचार्या वसन्ति सततं गृहे 004a
दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः 004c
स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये 005a
आगमस्थः स भूयिष्ठमात्मतत्त्वे न तुष्यति 005c
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः 006a
परिधावन्महीं कृत्स्नां जगाम मिथिलामपि 006c
सर्वसन्न्यासधर्माणां तत्त्वज्ञानविनिश्चये 007a
सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयः 007c
ऋषीणामाहुरेकं यं कामादवसितं नृषु 008a
शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम् 008c
यमाहुः कपिलं साङ्ख्याः परमर्षिं प्रजापतिम् 009a
स मन्ये तेन रूपेण विस्मापयति हि स्वयम् 009c
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् 010a
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम् 010c
तं समासीनमागम्य मण्डलं कापिलं महत् 011a
पुरुषावस्थमव्यक्तं परमार्थं निबोधयत् 011c
इष्टिसत्रेण संसिद्धो भूयश्च तपसा मुनिः 012a
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः 012c
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते 013a
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम् 013c
तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः 014a
ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी 014c
तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ 015a
ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम् 015c
एतन्मे भगवानाह कापिलेयाय सम्भवम् 016a
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् 016c
सामान्यं कपिलो ज्ञात्वा धर्मज्ञानामनुत्तमम् 017a
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः 017c
जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात् 018a
उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम् 018c
तस्मै परमकल्याय प्रणताय च धर्मतः 019a
अब्रवीत्परमं मोक्षं यत्तत्साङ्ख्यं विधीयते 019c
जातिनिर्वेदमुक्त्वा हि कर्मनिर्वेदमब्रवीत् 020a
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् 020c
यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः 021a
तदनाश्वासिकं मोघं विनाशि चलमध्रुवम् 021c
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके 022a
आगमात्परमस्तीति ब्रुवन्नपि पराजितः 022c
अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः 023a
आत्मानं मन्यते मोहात्तदसम्यक्परं मतम् 023c
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते 024a
अजरोऽयममृत्युश्च राजासौ मन्यते तथा 024c
अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे 025a
किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम् 025c
प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि 026a
प्रत्यक्षो ह्यागमोऽभिन्नः कृतान्तो वा न किञ्चन 026c
यत्र तत्रानुमानेऽस्ति कृतं भावयतेऽपि वा 027a
अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः 027c
रेतो वटकणीकायां घृतपाकाधिवासनम् 028a
जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् 028c
प्रेत्य भूतात्ययश्चैव देवताभ्युपयाचनम् 029a
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः 029c
न त्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः 030a
अमर्त्यस्य हि मर्त्येन सामान्यं नोपपद्यते 030c
अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवम् 031a
कारणं लोभमोहौ तु दोषाणां च निषेवणम् 031c
अविद्यां क्षेत्रमाहुर्हि कर्म बीजं तथा कृतम् 032a
तृष्णासञ्जननं स्नेह एष तेषां पुनर्भवः 032c
तस्मिन्व्यूढे च दग्धे च चित्ते मरणधर्मिणि 033a
अन्योऽन्याज्जायते देहस्तमाहुः सत्त्वसङ्क्षयम् 033c
यदा स रूपतश्चान्यो जातितः श्रुतितोऽर्थतः 034a
कथमस्मिन्स इत्येव सम्बन्धः स्यादसंहितः 034c
एवं सति च का प्रीतिर्दानविद्यातपोबलैः 035a
यदन्याचरितं कर्म सर्वमन्यः प्रपद्यते 035c
यदा ह्ययमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् 036a
सुखितैर्दुःखितैर्वापि दृश्योऽप्यस्य विनिर्णयः 036c
तथा हि मुसलैर्हन्युः शरीरं तत्पुनर्भवेत् 037a
पृथग्ज्ञानं यदन्यच्च येनैतन्नोपलभ्यते 037c
ऋतुः संवत्सरस्तिथ्यः शीतोष्णे च प्रियाप्रिये 038a
यथातीतानि पश्यन्ति तादृशः सत्त्वसङ्क्षयः 038c
जरया हि परीतस्य मृत्युना वा विनाशिना 039a
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति 039c
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च 040a
आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च 040c
लोकयात्राविधानं च दानधर्मफलागमः 041a
यदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः 041c
इति सम्यङ्मनस्येते बहवः सन्ति हेतवः 042a
एतदस्तीदमस्तीति न किञ्चित्प्रतिपद्यते 042c
तेषां विमृशतामेवं तत्तत्समभिधावताम् 043a
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् 043c
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः 044a
आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा 044c
अर्थांस्तथात्यन्तसुखावहांश्च लिप्सन्त एते बहवो विशुल्काः 045a
महत्तरं दुःखमभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयान्ति 045c
विनाशिनो ह्यध्रुवजीवितस्य किं बन्धुभिर्मित्रपरिग्रहैश्च 046a
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च 046c
भूव्योमतोयानलवायवो हि सदा शरीरं परिपालयन्ति 047a
इतीदमालक्ष्य कुतो रतिर्भवेद्विनाशिनो ह्यस्य न शर्म विद्यते 047c
इदमनुपधि वाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् 048a
नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे 048c