गुरुरुवाच 001
न स वेद परं धर्मं यो न वेद चतुष्टयम् 001a
व्यक्ताव्यक्ते च यत्तत्त्वं सम्प्राप्तं परमर्षिणा 001c
व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम् 002a
प्रवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् 002c
अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम् 003a
निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम् 003c
प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत् 004a
प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः 004c
तां गतिं परमामेति निवृत्तिपरमो मुनिः 005a
ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः 005c
तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ 006a
अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम् 006c
तं विशेषमवेक्षेत विशेषेण विचक्षणः 007a
अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि 007c
उभौ नित्यौ सूक्ष्मतरौ महद्भ्यश्च महत्तरौ 008a
सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम् 008c
प्रकृत्या सर्गधर्मिण्या तथा त्रिविधसत्त्वया 009a
विपरीतमतो विद्यात्क्षेत्रज्ञस्य च लक्षणम् 009c
प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् 010a
अग्राह्यौ पुरुषावेतावलिङ्गत्वादसंहितौ 010c
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यया 011a
करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते 011c
कीर्त्यते शब्दसञ्ज्ञाभिः कोऽहमेषोऽप्यसाविति 011e
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः 012a
संवृतोऽयं तथा देही सत्त्वराजसतामसैः 012c
तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिराचितम् 013a
यथासञ्ज्ञो ह्ययं सम्यगन्तकाले न मुह्यति 013c
श्रियं दिव्यामभिप्रेप्सुर्ब्रह्म वाङ्मनसा शुचिः 014a
शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः 014c
त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता 015a
सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि 015c
प्रतापस्तपसो ज्ञानं लोके संशब्दितं तपः 016a
रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम् 016c
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते 017a
वाङ्मनोनियमः साम्यं मानसं तप उच्यते 017c
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते 018a
आहारनियमेनास्य पाप्मा नश्यति राजसः 018c
वैमनस्यं च विषये यान्त्यस्य करणानि च 019a
तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम् 019c
अन्तकाले वयोत्कर्षाच्छनैः कुर्यादनातुरः 020a
एवं युक्तेन मनसा ज्ञानं तदुपपद्यते 020c
रजसा चाप्ययं देही देहवाञ्शब्दवच्चरेत् 021a
कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः 021c
आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते 021e
हेतुयुक्तः सदोत्सर्गो भूतानां प्रलयस्तथा 022a
परप्रत्ययसर्गे तु नियतं नातिवर्तते 022c
भवान्तप्रभवप्रज्ञा आसते ये विपर्ययम् 023a
धृत्या देहान्धारयन्तो बुद्धिसङ्क्षिप्तमानसाः 023c
स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तानुपासते 023e
यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुध्यते 024a
देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः 024c
युक्तो धारणया कश्चित्सत्तां केचिदुपासते 024e
अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम् 025a
अन्तकाले ह्युपासन्नास्तपसा दग्धकिल्बिषाः 025c
सर्व एते महात्मानो गच्छन्ति परमां गतिम् 026a
सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा 026c
देहं तु परमं विद्याद्विमुक्तमपरिग्रहम् 027a
अन्तरिक्षादन्यतरं धारणासक्तमानसम् 027c
मर्त्यलोकाद्विमुच्यन्ते विद्यासंयुक्तमानसाः 028a
ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम् 028c
कषायवर्जितं ज्ञानं येषामुत्पद्यतेऽचलम् 029a
ते यान्ति परमाल्ँलोकान्विशुध्यन्तो यथाबलम् 029c
भगवन्तमजं दिव्यं विष्णुमव्यक्तसञ्ज्ञितम् 030a
भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः 030c
ज्ञात्वात्मस्थं हरिं चैव निवर्तन्ते न तेऽव्ययाः 031a
प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्ययम् 031c
एतावदेतद्विज्ञानमेतदस्ति च नास्ति च 032a
तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते 032c
बिसतन्तुर्यथैवायमन्तःस्थः सर्वतो बिसे 033a
तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा 033c
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः 034a
तद्वत्संसारसूत्रं हि तृष्णासूच्या निबध्यते 034c
विकारं प्रकृतिं चैव पुरुषं च सनातनम् 035a
यो यथावद्विजानाति स वितृष्णो विमुच्यते 035c
प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम् 036a
भूतानामनुकम्पार्थं जगाद जगतो हितम् 036c