गुरुरुवाच 001
निष्कल्मषं ब्रह्मचर्यमिच्छता चरितुं सदा 001a
निद्रा सर्वात्मना त्याज्या स्वप्नदोषानवेक्षता 001c
स्वप्ने हि रजसा देही तमसा चाभिभूयते 002a
देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः 002c
ज्ञानाभ्यासाज्जागरतो जिज्ञासार्थमनन्तरम् 003a
विज्ञानाभिनिवेशात्तु जागरत्यनिशं सदा 003c
अत्राह को न्वयं भावः स्वप्ने विषयवानिव 004a
प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव 004c
अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः 005a
तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः 005c
इन्द्रियाणां श्रमात्स्वप्नमाहुः सर्वगतं बुधाः 006a
मनसस्तु प्रलीनत्वात्तत्तदाहुर्निदर्शनम् 006c
कार्यव्यासक्तमनसः सङ्कल्पो जाग्रतो ह्यपि 007a
यद्वन्मनोरथैश्वर्यं स्वप्ने तद्वन्मनोगतम् 007c
संसाराणामसङ्ख्यानां कामात्मा तदवाप्नुयात् 008a
मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः 008c
गुणानामपि यद्यत्तत्कर्म जानात्युपस्थितम् 009a
तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा 009c
ततस्तमुपवर्तन्ते गुणा राजसतामसाः 010a
सात्त्विको वा यथायोगमानन्तर्यफलोदयः 010c
ततः पश्यत्यसम्बद्धान्वातपित्तकफोत्तरान् 011a
रजस्तमोभवैर्भावैस्तदप्याहुर्दुरन्वयम् 011c
प्रसन्नैरिन्द्रियैर्यद्यत्सङ्कल्पयति मानसम् 012a
तत्तत्स्वप्नेऽप्युपरते मनोदृष्टिर्निरीक्षते 012c
व्यापकं सर्वभूतेषु वर्ततेऽप्रतिघं मनः 013a
मनस्यन्तर्हितं द्वारं देहमास्थाय मानसम् 013c
यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम् 014a
सर्वभूतात्मभूतस्थं तदध्यात्मगुणं विदुः 014c
लिप्सेत मनसा यश्च सङ्कल्पादैश्वरं गुणम् 015a
आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः 015c
एवं हि तपसा युक्तमर्कवत्तमसः परम् 016a
त्रैलोक्यप्रकृतिर्देही तपसा तं महेश्वरम् 016c
तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः 017a
एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम् 017c
सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः 018a
सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ 018c
ब्रह्म तत्परमं वेद्यममृतं ज्योतिरक्षरम् 019a
ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम् 019c
हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा 020a
प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम् 020c