गुरुरुवाच 001
दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः 001a
ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम् 001c
जन्ममृत्युजरादुःखैर्व्याधिभिर्मनसः क्लमैः 002a
दृष्ट्वेमं सन्ततं लोकं घटेन्मोक्षाय बुद्धिमान् 002c
वाङ्मनोभ्यां शरीरेण शुचिः स्यादनहङ्कृतः 003a
प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम् 003c
अथ वा मनसः सङ्गं पश्येद्भूतानुकम्पया 004a
अत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत् 004c
यत्कृतं प्राक्शुभं कर्म पापं वा तदुपाश्नुते 005a
तस्माच्छुभानि कर्माणि कुर्याद्वाग्बुद्धिकर्मभिः 005c
अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् 006a
क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् 006c
यश्चैनं परमं धर्मं सर्वभूतसुखावहम् 007a
दुःखान्निःसरणं वेद स तत्त्वज्ञः सुखी भवेत् 007c
तस्मात्समाहितं बुद्ध्या मनो भूतेषु धारयेत् 008a
नापध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत् 008c
अवाग्योगप्रयोगेण मनोज्ञं सम्प्रवर्तते 009a
विवक्षता वा सद्वाक्यं धर्मं सूक्ष्ममवेक्षता 009c
सत्यां वाचमहिंस्रां च वदेदनपवादिनीम् 009e
कल्कापेतामपरुषामनृशंसामपैशुनाम् 010a
ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा 010c
वाक्प्रबुद्धो हि संरागाद्विरागाद्व्याहरेद्यदि 011a
बुद्ध्या ह्यनिगृहीतेन मनसा कर्म तामसम् 011c
रजोभूतैर्हि करणैः कर्मणा प्रतिपद्यते 011e
स दुःखं प्राप्य लोकेऽस्मिन्नरकायोपपद्यते 012a
तस्मान्मनोवाक्शरीरैराचरेद्धैर्यमात्मनः 012c
प्रकीर्णमेषभारो हि यद्वद्धार्येत दस्युभिः 013a
प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा 013c
तानेव च यथा दस्यून्क्षिप्त्वा गच्छेच्छिवां दिशम् 014a
तथा रजस्तमःकर्माण्युत्सृज्य प्राप्नुयात्सुखम् 014c
निःसन्दिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः 015a
विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः 015c
ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान् 016a
निष्प्रचारेण मनसा परं तदधिगच्छति 016c
धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम् 017a
मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसात्मनः 017c
निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे 018a
देवतास्ताः प्रकाशन्ते हृष्टा यान्ति तमीश्वरम् 018c
ताभिः संसक्तमनसो ब्रह्मवत्सम्प्रकाशते 019a
एतैश्चापगतैः सर्वैर्ब्रह्मभूयाय कल्पते 019c
अथ वा न प्रवर्तेत योगतन्त्रैरुपक्रमेत् 020a
येन तन्त्रमयं तन्त्रं वृत्तिः स्यात्तत्तदाचरेत् 020c
कणपिण्याककुल्माषशाकयावकसक्तवः 021a
तथा मूलफलं भैक्षं पर्यायेणोपयोजयेत् 021c
आहारं नियतं चैव देशे काले च सात्त्विकम् 022a
तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम् 022c
प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत् 023a
ज्ञानेन्धितं ततो ज्ञानमर्कवत्सम्प्रकाशते 023c
ज्ञानाधिष्ठानमज्ञानं त्रील्ँलोकानधितिष्ठति 024a
विज्ञानानुगतं ज्ञानमज्ञानादपकृष्यते 024c
पृथक्त्वात्सम्प्रयोगाच्च नासूयुर्वेद शाश्वतम् 025a
स तयोरपवर्गज्ञो वीतरागो विमुच्यते 025c
वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम् 026a
अमृतं तदवाप्नोति यत्तदक्षरमव्ययम् 026c