गुरुरुवाच 001
अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा 001a
तद्विज्ञानाच्चरन्प्राज्ञः प्राप्नुयात्परमां गतिम् 001c
सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते 002a
पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रवादिनः 002c
सर्वभूतविशिष्टास्ते सर्वज्ञाः सर्वदर्शिनः 003a
ब्राह्मणा वेदतत्त्वज्ञास्तत्त्वार्थगतिनिश्चयाः 003c
नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि 004a
ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः 004c
तांस्तानुपासते धर्मान्धर्मकामा यथागमम् 005a
न त्वेषामर्थसामान्यमन्तरेण गुणानिमान् 005c
वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः 006a
सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणानिमान् 006c
यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम् 007a
परं तत्सर्वभूतेभ्यस्तेन यान्ति परां गतिम् 007c
लिङ्गसंयोगहीनं यच्छरीरस्पर्शवर्जितम् 008a
श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम् 008c
जिह्वया रसनं यच्च तदेव परिवर्जितम् 009a
बुद्ध्या च व्यवसायेन ब्रह्मचर्यमकल्मषम् 009c
सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान् 010a
द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः 010c
सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु 011a
सम्प्रवृत्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः 011c
योषितां न कथाः श्राव्या न निरीक्ष्या निरम्बराः 012a
कदाचिद्दर्शनादासां दुर्बलानाविशेद्रजः 012c
रागोत्पत्तौ चरेत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः 013a
मग्नः स्वप्ने च मनसा त्रिर्जपेदघमर्षणम् 013c
पाप्मानं निर्दहेदेवमन्तर्भूतं रजोमयम् 014a
ज्ञानयुक्तेन मनसा सन्ततेन विचक्षणः 014c
कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम् 015a
तद्वद्देहगतं विद्यादात्मानं देहबन्धनम् 015c
वातपित्तकफान्रक्तं त्वङ्मांसं स्नायुमस्थि च 016a
मज्जां चैव सिराजालैस्तर्पयन्ति रसा नृणाम् 016c
दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः 017a
याभिः सूक्ष्माः प्रतायन्ते धमन्योऽन्याः सहस्रशः 017c
एवमेताः सिरानद्यो रसोदा देहसागरम् 018a
तर्पयन्ति यथाकालमापगा इव सागरम् 018c
मध्ये च हृदयस्यैका सिरा त्वत्र मनोवहा 019a
शुक्रं सङ्कल्पजं नॄणां सर्वगात्रैर्विमुञ्चति 019c
सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः 020a
नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम् 020c
पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः 021a
शुक्रं निर्मथ्यते तद्वद्देहसङ्कल्पजैः खजैः 021c
स्वप्नेऽप्येवं यथाभ्येति मनःसङ्कल्पजं रजः 022a
शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहा 022c
महर्षिर्भगवानत्रिर्वेद तच्छुक्रसम्भवम् 023a
त्रिबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते 023c
ये वै शुक्रगतिं विद्युर्भूतसङ्करकारिकाम् 024a
विरागा दग्धदोषास्ते नाप्नुयुर्देहसम्भवम् 024c
गुणानां साम्यमागम्य मनसैव मनोवहम् 025a
देहकर्म नुदन्प्राणानन्तकाले विमुच्यते 025c
भविता मनसो ज्ञानं मन एव प्रतायते 026a
ज्योतिष्मद्विरजो दिव्यमत्र सिद्धं महात्मनाम् 026c
तस्मात्तदविघाताय कर्म कुर्यादकल्मषम् 027a
रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात् 027c
तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम् 028a
परिपक्वबुद्धिः कालेन आदत्ते मानसं बलम् 028c
सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम् 029a
यदा पश्येत्तदा दोषानतीत्यामृतमश्नुते 029c