गुरुरुवाच 001
रजसा साध्यते मोहस्तमसा च नरर्षभ 001a
क्रोधलोभौ भयं दर्प एतेषां साधनाच्छुचिः 001c
परमं परमात्मानं देवमक्षयमव्ययम् 002a
विष्णुमव्यक्तसंस्थानं विशन्ते देवसत्तमम् 002c
तस्य मायाविदग्धाङ्गा ज्ञानभ्रष्टा निराशिषः 003a
मानवा ज्ञानसम्मोहात्ततः कामं प्रयान्ति वै 003c
कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः 004a
मानदर्पादहङ्कारमहङ्कारात्ततः क्रियाः 004c
क्रियाभिः स्नेहसम्बन्धः स्नेहाच्छोकमनन्तरम् 005a
सुखदुःखसमारम्भाज्जन्माजन्मकृतक्षणाः 005c
जन्मतो गर्भवासं तु शुक्रशोणितसम्भवम् 006a
पुरीषमूत्रविक्लेदशोणितप्रभवाविलम् 006c
तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन् 007a
संसारतन्त्रवाहिन्यस्तत्र बुध्येत योषितः 007c
प्रकृत्या क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः 008a
तस्मादेता विशेषेण नरोऽतीयुर्विपश्चितः 008c
कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान् 009a
रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी 009c
तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः 010a
स्वदेहजानस्वसञ्ज्ञान्यद्वदङ्गात्कृमींस्त्यजेत् 010c
स्वसञ्ज्ञानस्वजांस्तद्वत्सुतसञ्ज्ञान्कृमींस्त्यजेत् 010e
शुक्रतो रसतश्चैव स्नेहाज्जायन्ति जन्तवः 011a
स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान् 011c
रजस्तमसि पर्यस्तं सत्त्वं तमसि संस्थितम् 012a
ज्ञानाधिष्ठानमज्ञानं बुद्ध्यहङ्कारलक्षणम् 012c
तद्बीजं देहिनामाहुस्तद्बीजं जीवसञ्ज्ञितम् 013a
कर्मणा कालयुक्तेन संसारपरिवर्तकम् 013c
रमत्ययं यथा स्वप्ने मनसा देहवानिव 014a
कर्मगर्भैर्गुणैर्देही गर्भे तदुपपद्यते 014c
कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम् 015a
जायते तदहङ्काराद्रागयुक्तेन चेतसा 015c
शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः 016a
रूपरागात्तथा चक्षुर्घ्राणं गन्धचिकीर्षया 016c
स्पर्शनेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः 017a
व्यानोदानौ समानश्च पञ्चधा देहयापना 017c
सञ्जातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः 018a
दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः 018c
दुःखं विद्यादुपादानादभिमानाच्च वर्धते 019a
त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते 019c
इन्द्रियाणां रजस्येव प्रभवप्रलयावुभौ 020a
परीक्ष्य सञ्चरेद्विद्वान्यथावच्छास्त्रचक्षुषा 020c
ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम् 021a
ज्ञातैश्च कारणैर्देही न देहं पुनरर्हति 021c