गुरुरुवाच 001
प्रवृत्तिलक्षणो धर्मो यथायमुपपद्यते 001a
तेषां विज्ञाननिष्ठानामन्यत्तत्त्वं न रोचते 001c
दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः 002a
प्रयोजनमतस्त्वत्र मार्गमिच्छन्ति संस्तुतम् 002c
सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम् 003a
इयं सा बुद्धिरन्येयं यया याति परां गतिम् 003c
शरीरवानुपादत्ते मोहात्सर्वपरिग्रहान् 004a
कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः 004c
नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम् 005a
कर्मणो विवरं कुर्वन्न लोकानाप्नुयाच्छुभान् 005c
लोहयुक्तं यथा हेम विपक्वं न विराजते 006a
तथापक्वकषायाख्यं विज्ञानं न प्रकाशते 006c
यश्चाधर्मं चरेन्मोहात्कामलोभावनु प्लवन् 007a
धर्म्यं पन्थानमाक्रम्य सानुबन्धो विनश्यति 007c
शब्दादीन्विषयांस्तस्मादसंरागादनुप्लवेत् 008a
क्रोधहर्षौ विषादश्च जायन्ते हि परस्परम् 008c
पञ्चभूतात्मके देहे सत्त्वराजसतामसे 009a
कमभिष्टुवते चायं कं वा क्रोशति किं वदेत् 009c
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः 010a
नावगच्छन्त्यविज्ञानादात्मजं पार्थिवं गुणम् 010c
मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते 011a
पार्थिवोऽयं तथा देहो मृद्विकारैर्विलिप्यते 011c
मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः 012a
धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा 012c
यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत् 013a
श्रमादाहारमादद्यादस्वाद्वपि हि यापनम् 013c
तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः 014a
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा 014c
सत्यशौचार्जवत्यागैर्यशसा विक्रमेण च 015a
क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च 015c
भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम् 016a
शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च 016c
सत्त्वेन रजसा चैव तमसा चैव मोहिताः 017a
चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम् 017c
तस्मात्सम्यक्परीक्षेत दोषानज्ञानसम्भवान् 018a
अज्ञानप्रभवं नित्यमहङ्कारं परित्यजेत् 018c
महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः 019a
त्रैलोक्यं सेश्वरं सर्वमहङ्कारे प्रतिष्ठितम् 019c
यथेह नियतं कालो दर्शयत्यार्तवान्गुणान् 020a
तद्वद्भूतेष्वहङ्कारं विद्याद्भूतप्रवर्तकम् 020c
सम्मोहकं तमो विद्यात्कृष्णमज्ञानसम्भवम् 021a
प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान् 021c
सत्त्वस्य रजसश्चैव तमसश्च निबोध तान् 021e
प्रमोहो हर्षजः प्रीतिरसन्देहो धृतिः स्मृतिः 022a
एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान् 022c
कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः 023a
विषादशोकावरतिर्मानदर्पावनार्यता 023c
दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम् 024a
विमृशेदात्मसंस्थानामेकैकमनुसन्ततम् 024c
शिष्य उवाच 025
के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः 025a
के पुनः पुनरायान्ति के मोहादफला इव 025c
केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः 026a
एतत्सर्वं समाचक्ष्व यथा विद्यामहं प्रभो 026c
गुरुरुवाच 027
दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते 027a
विनाशयति सम्भूतमयस्मयमयो यथा 027c
तथाकृतात्मा सहजैर्दोषैर्नश्यति राजसैः 027e
राजसं तामसं चैव शुद्धात्माकर्मसम्भवम् 028a
तत्सर्वं देहिनां बीजं सर्वमात्मवतः समम् 028c
तस्मादात्मवता वर्ज्यं रजश्च तम एव च 029a
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात् 029c
अथ वा मन्त्रवद्ब्रूयुर्मांसादानां यजुष्कृतम् 030a
हेतुः स एवानादाने शुद्धधर्मानुपालने 030c
रजसा धर्मयुक्तानि कार्याण्यपि समाप्नुयात् 031a
अर्थयुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते 031c
तमसा लोभयुक्तानि क्रोधजानि च सेवते 032a
हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः 032c
सत्त्वस्थः सात्त्विकान्भावाञ्शुद्धान्पश्यति संश्रितः 033a
स देही विमलः श्रीमाञ्शुद्धो विद्यासमन्वितः 033c