001 गुरुरुवाच 001a चतुर्विधानि भूतानि स्थावराणि चराणि च 001c अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च 001e अव्यक्तनिधनं विद्यादव्यक्तात्मात्मकं मनः 002a यथाश्वत्थकणीकायामन्तर्भूतो महाद्रुमः 002c निष्पन्नो दृश्यते व्यक्तमव्यक्तात्सम्भवस्तथा 003a अभिद्रवत्ययस्कान्तमयो निश्चेतनावुभौ 003c स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् 004a तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः 004c अचेतनाश्चेतयितुः कारणादभिसंहिताः 005a न भूः खं द्यौर्न भूतानि नर्षयो न सुरासुराः 005c नान्यदासीदृते जीवमासेदुर्न तु संहितम् 006a सर्वनीत्या सर्वगतं मनोहेतु सलक्षणम् 006c अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम् 007a तत्कारणैर्हि संयुक्तं कार्यसङ्ग्रहकारकम् 007c येनैतद्वर्तते चक्रमनादिनिधनं महत् 008a अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् 008c क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् 009a स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत् 009c तिलपीडैरिवाक्रम्य भोगैरज्ञानसम्भवैः 010a कर्म तत्कुरुते तर्षादहङ्कारपरिग्रहम् 010c कार्यकारणसंयोगे स हेतुरुपपादितः 011a नात्येति कारणं कार्यं न कार्यं कारणं तथा 011c कार्याणां तूपकरणे कालो भवति हेतुमान् 012a हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम् 012c अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा 013a सरजस्तामसैर्भावैश्च्युतो हेतुबलान्वितः 013c क्षेत्रज्ञमेवानुयाति पांसुर्वातेरितो यथा 013e न च तैः स्पृश्यते भावो न ते तेन महात्मना 014a सरजस्कोऽरजस्कश्च स वै वायुर्यथा भवेत् 014c तथैतदन्तरं विद्यात्क्षेत्रक्षेत्रज्ञयोर्बुधः 014e अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः 015a सन्देहमेतमुत्पन्नमच्छिनद्भगवानृषिः 015c तथा वार्तां समीक्षेत कृतलक्षणसम्मिताम् 016a बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः 016c ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्बध्यते पुनः