001 युधिष्ठिर उवाच 001a योगं मे परमं तात मोक्षस्य वद भारत 001c तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह 003a कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम् 003c शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः 003e चरणावुपसङ्गृह्य स्थितः प्राञ्जलिरब्रवीत् 004a उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम 004c संशयो मे महान्कश्चित्तन्मे व्याख्यातुमर्हसि 005a कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम् 005c कथं च सर्वभूतेषु समेषु द्विजसत्तम 005e सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः 006a वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत् 006c एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि 007 गुरुरुवाच 007a शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम् 007c अध्यात्मं सर्वभूतानामागमानां च यद्वसु 008a वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो मुखम् 008c सत्यं दानमथो यज्ञस्तितिक्षा दम आर्जवम् 009a पुरुषं सनातनं विष्णुं यत्तद्वेदविदो विदुः 009c सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् 009e तदिदं ब्रह्म वार्ष्णेयमितिहासं शृणुष्व मे 010a ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तथा 010c माहात्म्यं देवदेवस्य विष्णोरमिततेजसः 010e अर्हस्त्वमसि कल्याण वार्ष्णेयं शृणु यत्परम् 011a कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम् 011c त्रैलोक्यं सर्वभूतेषु चक्रवत्परिवर्तते 012a यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम् 012c वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम् 013a पितॄन्देवानृषींश्चैव तथा वै यक्षदानवान् 013c नागासुरमनुष्यांश्च सृजते परमोऽव्ययः 014a तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान् 014c प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः 015a यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये 015c दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु 016a अथ यद्यद्यदा भावि कालयोगाद्युगादिषु 016c तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम् 017a युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः 017c लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा 018a वेदविद्वेद भगवान्वेदाङ्गानि बृहस्पतिः 018c भार्गवो नीतिशास्त्रं च जगाद जगतो हितम् 019a गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम् 019c देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम् 020a न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः 020c हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते 021a अनाद्यं यत्परं ब्रह्म न देवा नर्षयो विदुः 021c एकस्तद्वेद भगवान्धाता नारायणः प्रभुः 022a नारायणादृषिगणास्तथा मुख्याः सुरासुराः 022c राजर्षयः पुराणाश्च परमं दुःखभेषजम् 023a पुरुषाधिष्ठितं भावं प्रकृतिः सूयते सदा 023c हेतुयुक्तमतः सर्वं जगत्सम्परिवर्तते 024a दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः 024c प्रकृतिः सृजते तद्वदानन्त्यान्नापचीयते 025a अव्यक्तकर्मजा बुद्धिरहङ्कारं प्रसूयते 025c आकाशं चाप्यहङ्काराद्वायुराकाशसम्भवः 026a वायोस्तेजस्ततश्चापस्त्वद्भ्यो हि वसुधोद्गता 026c मूलप्रकृतयोऽष्टौ ता जगदेतास्ववस्थितम् 027a ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि 027c विषयाः पञ्च चैकं च विकारे षोडशं मनः 028a श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्यपि 028c पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणामपि 029a शब्दः स्पर्शोऽथ रूपं च रसो गन्धस्तथैव च 029c विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः 030a रसज्ञाने तु जिह्वेयं व्याहृते वाक्तथैव च 030c इन्द्रियैर्विविधैर्युक्तं सर्वं व्यस्तं मनस्तथा 031a विद्यात्तु षोडशैतानि दैवतानि विभागशः 031c देहेषु ज्ञानकर्तारमुपासीनमुपासते 032a तद्वत्सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः 032c श्रोत्रं शब्दगुणं चैव चक्षुरग्नेर्गुणस्तथा 032e स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा 033a मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा 033c सर्वभूतात्मभूतस्थं तस्माद्बुध्येत बुद्धिमान् 034a एते भावा जगत्सर्वं वहन्ति सचराचरम् 034c श्रिता विरजसं देवं यमाहुः परमं पदम् 035a नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम् 035c व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते 036a अजरः सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान् 036c व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः 037a यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् 037c ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु 038a सोऽत्र वेदयते वेद्यं स शृणोति स पश्यति 038c कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम् 039a अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते 039c तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते 040a नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः 040c सन्तन्वाना यथा यान्ति तथा देहाः शरीरिणाम् 041a स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः 041c देहमुत्सृज्य वै याति तथैवात्रोपलभ्यते 042a कर्मणा व्याप्यते पूर्वं कर्मणा चोपपद्यते 042c कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा 043a स तु देहाद्यथा देहं त्यक्त्वान्यं प्रतिपद्यते 043c तथा तं सम्प्रवक्ष्यामि भूतग्रामं स्वकर्मजम्