001 युधिष्ठिर उवाच 001a पितामह महाप्राज्ञ युधि सत्यपराक्रम 001c श्रोतुमिच्छामि कार्त्स्न्येन कृष्णमव्ययमीश्वरम् 002a यच्चास्य तेजः सुमहद्यच्च कर्म पुरातनम् 002c तन्मे सर्वं यथातत्त्वं प्रब्रूहि भरतर्षभ 003a तिर्यग्योनिगतं रूपं कथं धारितवान्हरिः 003c केन कार्यविसर्गेण तन्मे ब्रूहि पितामह 004 भीष्म उवाच 004a पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः 004c तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः 005a ततस्ते मधुपर्केण पूजां चक्रुरथो मयि 005c प्रतिगृह्य च तां पूजां प्रत्यनन्दमृषीनहम् 006a कथैषा कथिता तत्र कश्यपेन महर्षिणा 006c मनःप्रह्लादिनीं दिव्यां तामिहैकमनाः शृणु 007a पुरा दानवमुख्या हि क्रोधलोभसमन्विताः 007c बलेन मत्ताः शतशो नरकाद्या महासुराः 008a तथैव चान्ये बहवो दानवा युद्धदुर्मदाः 008c न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम् 009a दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा 009c न शर्म लेभिरे राजन्विशमानास्ततस्ततः 010a पृथिवीं चार्तरूपां ते समपश्यन्दिवौकसः 010c दानवैरभिसङ्कीर्णां घोररूपैर्महाबलैः 010e भारार्तामपकृष्टां च दुःखितां सन्निमज्जतीम् 011a अथादितेयाः सन्त्रस्ता ब्रह्माणमिदमब्रुवन् 011c कथं शक्यामहे ब्रह्मन्दानवैरुपमर्दनम् 012a स्वयम्भूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया 012c ते वरेणाभिसम्मत्ता बलेन च मदेन च 013a नावभोत्स्यन्ति सम्मूढा विष्णुमव्यक्तदर्शनम् 013c वराहरूपिणं देवमधृष्यममरैरपि 014a एष वेगेन गत्वा हि यत्र ते दानवाधमाः 014c अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः 014e शमयिष्यति श्रुत्वा ते जहृषुः सुरसत्तमाः 015a ततो विष्णुर्महातेजा वाराहं रूपमाश्रितः 015c अन्तर्भूमिं सम्प्रविश्य जगाम दितिजान्प्रति 016a दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वममानुषम् 016c प्रसह्य सहसा सर्वे सन्तस्थुः कालमोहिताः 017a सर्वे च समभिद्रुत्य वराहं जगृहुः समम् 017c सङ्क्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः 018a दानवेन्द्रा महाकाया महावीर्या बलोच्छ्रिताः 018c नाशक्नुवंश्च किञ्चित्ते तस्य कर्तुं तदा विभो 019a ततोऽगमन्विस्मयं ते दानवेन्द्रा भयात्तदा 019c संशयं गतमात्मानं मेनिरे च सहस्रशः 020a ततो देवादिदेवः स योगात्मा योगसारथिः 020c योगमास्थाय भगवांस्तदा भरतसत्तम 021a विननाद महानादं क्षोभयन्दैत्यदानवान् 021c सन्नादिता येन लोकाः सर्वाश्चैव दिशो दश 022a तेन सन्नादशब्देन लोकाः सङ्क्षोभमागमन् 022c सम्भ्रान्ताश्च दिशः सर्वा देवाः शक्रपुरोगमाः 023a निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा 023c स्थावरं जङ्गमं चैव तेन नादेन मोहितम् 024a ततस्ते दानवाः सर्वे तेन शब्देन भीषिताः 024c पेतुर्गतासवश्चैव विष्णुतेजोविमोहिताः 025a रसातलगतांश्चैव वराहस्त्रिदशद्विषः 025c खुरैः सन्दारयामास मांसमेदोस्थिसञ्चयम् 026a नादेन तेन महता सनातन इति स्मृतः 026c पद्मनाभो महायोगी भूताचार्यः स भूतराट् 027a ततो देवगणाः सर्वे पितामहमुपाब्रुवन् 027c नादोऽयं कीदृशो देव नैनं विद्म वयं विभो 027e कोऽसौ हि कस्य वा नादो येन विह्वलितं जगत् 028a एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः 028c उदतिष्ठन्महादेवः स्तूयमानो महर्षिभिः 029 पितामह उवाच 029a निहत्य दानवपतीन्महावर्ष्मा महाबलः 029c एष देवो महायोगी भूतात्मा भूतभावनः 030a सर्वभूतेश्वरो योगी योनिरात्मा तथात्मनः 030c स्थिरीभवत कृष्णोऽयं सर्वपापप्रणाशनः 031a कृत्वा कर्मातिसाध्वेतदशक्यममितप्रभः 031c समायातः स्वमात्मानं महाभागो महाद्युतिः 031e पद्मनाभो महायोगी भूतात्मा भूतभावनः 032a न सन्तापो न भीः कार्या शोको वा सुरसत्तमाः 032c विधिरेष प्रभावश्च कालः सङ्क्षयकारकः 032e लोकान्धारयतानेन नादो मुक्तो महात्मना 033a स एव हि महाभागः सर्वलोकनमस्कृतः 033c अच्युतः पुण्डरीकाक्षः सर्वभूतसमुद्भवः