001 युधिष्ठिर उवाच 001a के पूर्वमासन्पतयः प्रजानां भरतर्षभ 001c के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः 002 भीष्म उवाच 002a श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि 002c प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः 003a एकः स्वयम्भूर्भगवानाद्यो ब्रह्मा सनातनः 003c ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयम्भुवः 004a मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 004c वसिष्ठश्च महाभागः सदृशा वै स्वयम्भुवा 005a सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः 005c अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् 006a अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः 006c प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश 007a दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः 007c तस्य द्वे नामनी लोके दक्षः क इति चोच्यते 008a मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुते 008c अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः 009a अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान् 009c सहस्रं यश्च दिव्यानां युगानां पर्युपासिता 010a अर्यमा चैव भगवान्ये चान्ये तनया विभो 010c एते प्रदेशाः कथिता भुवनानां प्रभावनाः 011a शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत 011c एकैकस्यां सहस्रं तु तनयानामभूत्तदा 012a एवं शतसहस्राणां शतं तस्य महात्मनः 012c पुत्राणां न च ते कञ्चिदिच्छन्त्यन्यं प्रजापतिम् 013a प्रजामाचक्षते विप्राः पौराणीं शाशबिन्दवीम् 013c स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः 014a एते प्रजानां पतयः समुद्दिष्टा यशस्विनः 014c अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् 015a भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा 015c सविता चैव धाता च विवस्वांश्च महाबलः 016a पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यते 016c त एते द्वादशादित्याः कश्यपस्यात्मसम्भवाः 017a नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि 017c मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः 018a त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः 018c अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः 019a हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः 019c सावित्रश्च जयन्तश्च पिनाकी चापराजितः 019e पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः 020a एत एवंविधा देवा मनोरेव प्रजापतेः 020c ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः 021a शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोः 021c ऋभवो मरुतश्चैव देवानां चोदिता गणाः 022a एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ 022c आदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा 023a अश्विनौ तु मतौ शूद्रौ तपस्युग्रे समाहितौ 023c स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः 023e इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् 024a एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत् 024c स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते 025a यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू 025c औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः 026a ऋषेर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा 026c त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा 027a उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् 027c प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः 028a मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् 028c एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम् 029a रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् 029c एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः 030a अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः 030c एते नव महात्मानः पश्चिमामाश्रिता दिशम् 031a आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः 031c गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः 032a तथैव पुत्रो भगवानृचीकस्य महात्मनः 032c जमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः 033a एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः 033c साक्षिभूता महात्मानो भुवनानां प्रभावनाः 034a एवमेते महात्मानः स्थिताः प्रत्येकशो दिशः 034c एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते 035a यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः 035c मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत्