001 युधिष्ठिर उवाच 001a पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम् 001c कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् 002a नारायणं हृषीकेशं गोविन्दमपराजितम् 002c तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् 003 भीष्म उवाच 003a श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः 003c नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च 004a असितो देवलस्तात वाल्मीकिश्च महातपाः 004c मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् 005a केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः 005c पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः 006a किं तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनः 006c माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर 007a यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः 007c अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्यहम् 008a महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः 008c वायुर्ज्योतिस्तथा चापः खं गां चैवान्वकल्पयत् 009a स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः 009c अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः 010a सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे 010c सोऽग्रजं सर्वभूतानां सङ्कर्षणमचिन्तयत् 011a आश्रयं सर्वभूतानां मनसेति विशुश्रुम 011c स धारयति भूतात्मा उभे भूतभविष्यती 012a ततस्तस्मिन्महाबाहो प्रादुर्भूते महात्मनि 012c भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत 013a स तत्र भगवान्देवः पुष्करे भासयन्दिशः 013c ब्रह्मा समभवत्तात सर्वभूतपितामहः 014a तस्मिन्नपि महाबाहो प्रादुर्भूते महात्मनि 014c तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः 015a तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् 015c ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः 016a तस्य तात वधात्सर्वे देवदानवमानवाः 016c मधुसूदनमित्याहुर्वृषभं सर्वसात्वताम् 017a ब्रह्मा तु ससृजे पुत्रान्मानसान्दक्षसप्तमान् 017c मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् 018a मरीचिः कश्यपं तात पुत्रं चासृजदग्रजम् 018c मानसं जनयामास तैजसं ब्रह्मसत्तमम् 019a अङ्गुष्ठादसृजद्ब्रह्मा मरीचेरपि पूर्वजम् 019c सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः 020a तस्य पूर्वमजायन्त दश तिस्रश्च भारत 020c प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद्दितिः 021a सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः 021c मारीचः कश्यपस्तात सर्वासामभवत्पतिः 022a उत्पाद्य तु महाभागस्तासामवरजा दश 022c ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः 023a धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः 023c विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत 024a अपरास्तु यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः 024c सोमस्तासां महाभागः सर्वासामभवत्पतिः 025a इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान्द्विजान् 025c गाश्च किम्पुरुषान्मत्स्यानौद्भिदांश्च वनस्पतीन् 026a आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान् 026c तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः 027a तस्य विक्रमणादेव देवानां श्रीर्व्यवर्धत 027c दानवाश्च पराभूता दैतेयी चासुरी प्रजा 028a विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः 028c दितिस्तु सर्वानसुरान्महासत्त्वान्व्यजायत 029a अहोरात्रं च कालं च यथर्तु मधुसूदनः 029c पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत् 030a बुद्ध्यापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान् 030c पृथिवीं सोऽसृजद्विश्वां सहितां भूरितेजसा 031a ततः कृष्णो महाबाहुः पुनरेव युधिष्ठिर 031c ब्राह्मणानां शतं श्रेष्ठं मुखादसृजत प्रभुः 032a बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम् 032c पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ 033a स एवं चतुरो वर्णान्समुत्पाद्य महायशाः 033c अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः 034a यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम् 034c तावत्तावदजीवंस्ते नासीद्यमकृतं भयम् 035a न चैषां मैथुनो धर्मो बभूव भरतर्षभ 035c सङ्कल्पादेव चैतेषामपत्यमुदपद्यत 036a तत्र त्रेतायुगे काले सङ्कल्पाज्जायते प्रजा 036c न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप 037a द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप 037c तथा कलियुगे राजन्द्वन्द्वमापेदिरे जनाः 038a एष भूतपतिस्तात स्वध्यक्षश्च प्रकीर्तितः 038c निरध्यक्षांस्तु कौन्तेय कीर्तयिष्यामि तानपि 039a दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः 039c उत्साः पुलिन्दाः शबराश्चूचुपा मण्डपैः सह 040a उत्तरापथजन्मानः कीर्तयिष्यामि तानपि 040c यौनकाम्बोजगान्धाराः किराता बर्बरैः सह 041a एते पापकृतस्तात चरन्ति पृथिवीमिमाम् 041c श्वकाकबलगृध्राणां सधर्माणो नराधिप 042a नैते कृतयुगे तात चरन्ति पृथिवीमिमाम् 042c त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ 043a ततस्तस्मिन्महाघोरे सन्ध्याकाले युगान्तिके 043c राजानः समसज्जन्त समासाद्येतरेतरम् 044a एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः 044c देवदेवर्षिराचष्ट नारदः सर्वलोकदृक् 045a नारदोऽप्यथ कृष्णस्य परं मेने नराधिप 045c शाश्वतत्वं महाबाहो यथावद्भरतर्षभ 046a एवमेष महाबाहुः केशवः सत्यविक्रमः 046c अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः