001 मनुरुवाच 001a यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह 001c अथ तद्द्रक्ष्यसे ब्रह्म मणौ सूत्रमिवार्पितम् 002a तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः 002c मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा 003a तद्वद्गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु 003c तद्वत्कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः 004a येन येन शरीरेण यद्यत्कर्म करोत्ययम् 004c तेन तेन शरीरेण तत्तत्फलमुपाश्नुते 005a यथा ह्येकरसा भूमिरोषध्यात्मानुसारिणी 005c तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी 006a ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसन्धिता 006c अभिसन्धिपूर्वकं कर्म कर्ममूलं ततः फलम् 007a फलं कर्मात्मकं विद्यात्कर्म ज्ञेयात्मकं तथा 007c ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम् 008a ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा 008c क्षयान्ते तत्फलं दिव्यं ज्ञानं ज्ञेयप्रतिष्ठितम् 009a महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः 009c अबुधास्तं न पश्यन्ति ह्यात्मस्था गुणबुद्धयः 010a पृथिवीरूपतो रूपमपामिह महत्तरम् 010c अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान् 011a पवनाच्च महद्व्योम तस्मात्परतरं मनः 011c मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः 012a कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत् 012c नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते 013a अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः 013c अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते 014a तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं स्मृतम् 014c तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः 015a गुणैस्त्वेतैः प्रकाशन्ते निर्गुणत्वात्ततः परम् 015c निवृत्तिलक्षणो धर्मस्तथानन्त्याय कल्पते 016a ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः 016c जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः 017a न चैवमिष्यते ब्रह्म शरीराश्रयसम्भवम् 017c न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् 018a ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते 018c अन्तश्चादिमतां दृष्टो न चादिर्ब्रह्मणः स्मृतः 019a अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् 019c अव्ययत्वाच्च निर्द्वन्द्वं द्वन्द्वाभावात्ततः परम् 020a अदृष्टतोऽनुपायाच्चाप्यभिसन्धेश्च कर्मणः 020c न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत्परम् 021a विषयेषु च संसर्गाच्छाश्वतस्य च दर्शनात् 021c मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते 022a गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः 022c परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः 023a गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान् 023c अनुमानाद्धि गन्तव्यं गुणैरवयवैः सह 024a सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः 024c मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् 025a ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः 025c मनसा चेन्द्रियग्राममनन्तं प्रतिपद्यते 026a बुद्धिप्रहीणो मनसासमृद्धस्तथा निराशीर्गुणतामुपैति 026c परं त्यजन्तीह विलोभ्यमाना हुताशनं वायुरिवेन्धनस्थम् 027a गुणादाने विप्रयोगे च तेषां मनः सदा बुद्धिपरावराभ्याम् 027c अनेनैव विधिना सम्प्रवृत्तो गुणादाने ब्रह्मशरीरमेति 028a अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा सोऽव्यक्तत्वं गच्छति ह्यन्तकाले 028c तैरेवायं चेन्द्रियैर्वर्धमानैर्ग्लायद्भिर्वा वर्तते कर्मरूपः 029a सर्वैरयं चेन्द्रियैः सम्प्रयुक्तो देहः प्राप्तः पञ्चभूताश्रयः स्यात् 029c नासामर्थ्याद्गच्छति कर्मणेह हीनस्तेन परमेणाव्ययेन 030a पृथ्व्या नरः पश्यति नान्तमस्या ह्यन्तश्चास्या भविता चेति विद्धि 030c परं नयन्तीह विलोभ्यमानं यथा प्लवं वायुरिवार्णवस्थम् 031a दिवाकरो गुणमुपलभ्य निर्गुणो यथा भवेद्व्यपगतरश्मिमण्डलः 031c तथा ह्यसौ मुनिरिह निर्विशेषवान्स निर्गुणं प्रविशति ब्रह्म चाव्ययम् 032a अनागतिं सुकृतिमतां परां गतिं स्वयम्भुवं प्रभवनिधानमव्ययम् 032c सनातनं यदमृतमव्ययं पदं विचार्य तं शमममृतत्वमश्नुते