001 मनुरुवाच 001a ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः 001c प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते 002a यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते 002c तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना 003a सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते 003c अवताराभिनिःस्रोतं गिरेः शृङ्गादिवोदकम् 004a यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम् 004c तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा 005a मनस्त्वपहृतं बुद्धिमिन्द्रियार्थनिदर्शनम् 005c न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम् 006a सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः 006c मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते 007a यथा महान्ति भूतानि निवर्तन्ते गुणक्षये 007c तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते 008a यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी 008c व्यवसायगुणोपेता तदा सम्पद्यते मनः 009a गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः 009c तदा सर्वगुणान्हित्वा निर्गुणं प्रतिपद्यते 010a अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम् 010c यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् 011a तपसा चानुमानेन गुणैर्जात्या श्रुतेन च 011c निनीषेत्तत्परं ब्रह्म विशुद्धेनान्तरात्मना 012a गुणहीनो हि तं मार्गं बहिः समनुवर्तते 012c गुणाभावात्प्रकृत्या च निस्तर्क्यं ज्ञेयसम्मितम् 013a नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते 013c गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने 014a यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः 014c तथा तत्परमं ब्रह्म विमुक्तं प्रकृतेः परम् 015a एवं प्रकृतितः सर्वे प्रभवन्ति शरीरिणः 015c निवर्तन्ते निवृत्तौ च सर्गं नैवोपयान्ति च 016a पुरुषः प्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च 016c अहङ्कारोऽभिमानश्च सम्भूतो भूतसञ्ज्ञकः 017a एकस्याद्या प्रवृत्तिस्तु प्रधानात्सम्प्रवर्तते 017c द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति 018a धर्मादुत्कृष्यते श्रेयस्तथाश्रेयोऽप्यधर्मतः 018c रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवेत्